Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जूनमासः (हि.स.)।दिल्ल्याः विधिन्यायश्रमरोजगारमन्त्री कपिल मिश्र उक्तवान् यत् पत्रकारेभ्यः कैशलेसमेडिकलसुविधा अवश्यं प्रदातव्या। सः एतद्वचनं ‘मान्यताप्राप्तपत्रकारकल्याणसमितेः’ प्रतिनिधिमण्डलेन सह आयोजिते मेलने उक्तवान्।
अस्याः समितेः प्रतिनिधिमण्डलं पत्रकाराणां मागानां ज्ञापनं गृहीत्वा अद्य दिल्ली सचिवालये मन्त्री कपिल मिश्रं मिलितवन्तः। प्रतिनिधिमण्डले समितेः जनरलसेक्रेटरी रजनीकांत तिवारी, कोषाध्यक्ष अशोक कौशिक, गौरव शर्मा, श्याम सुंदर तथा अमित कुमार सम्मिलिताः आसन्। अस्मिन् अवसरे कपिल मिश्राय प्रतीकचिह्नं,रांकवं पुष्पगुच्छं च समर्प्य सम्मानः कृतः। एषा सूचना ‘मान्यताप्राप्तपत्रकारकल्याणसमितेः’ माध्यमेन विज्ञप्तौ प्रदत्ता।
विज्ञप्तेः अनुसारम् अस्मिन् अवसरे कपिल मिश्र पत्रकाराणां मागानां विषये चर्चां कुर्वन् उक्तवान् यत् पत्रकारेभ्यः कैशलेसमेडिकलसुविधा अवश्यं दातव्या। तेन सह पत्रकारेभ्यः पेंशनसुविधा, डीटीसी अन्ता राज्यीयबसयानेषु निःशुल्कयात्रा तथा अन्यासां याचनानामपि विषये विचारः भविष्यति इति विश्वासः प्रदत्तः।
समितेः प्रतिनिधयः उक्तवन्तः यत् पत्रकाराः समाजस्य सरकारस्य च मध्ये सेतुरूपेण कार्यं कुर्वन्ति। कठिनपरिस्थितिषु, जोखिमपूर्णपरिसरेषु निरन्तरदायित्वानां मध्ये च पत्रकाराः जनहितस्य स्वरं जनसमक्षं प्रस्तौति। अतः तेषां स्वास्थ्यस्य भविष्यस्य च सुरक्षा सर्वकारस्य प्राथमिकता भवितुमर्हति।
---------------
Hindusthan Samachar / Dheeraj Maithani