मध्यप्रदेशः विभिन्न मागान् आधृत्य संविदास्वास्थ्यकर्मचारिणोऽद्यारभ्य अनिश्चितकालीनान्दोलने
भोपालम्, 02 जूनमासः (हि.स.)। मध्यप्रदेशे राष्ट्रियस्वास्थ्यमिशनस्य अन्तर्गतं कार्यरताः संविदास्वास्थ्यकर्मचारिभिः स्वविविधमागानां समर्थनार्थम् अद्य मङ्गलवासरात् अनिश्चितकालीनांदोलनं प्रारभ्यते। कर्मचारिणां कथनम् अस्ति यत् ३० जनवरी २०२६ तमे दिने
हड़ताल (प्रतीकात्मक)


भोपालम्, 02 जूनमासः (हि.स.)।

मध्यप्रदेशे राष्ट्रियस्वास्थ्यमिशनस्य अन्तर्गतं कार्यरताः संविदास्वास्थ्यकर्मचारिभिः स्वविविधमागानां समर्थनार्थम् अद्य मङ्गलवासरात् अनिश्चितकालीनांदोलनं प्रारभ्यते।

कर्मचारिणां कथनम् अस्ति यत् ३० जनवरी २०२६ तमे दिने मुख्यमन्त्रिणः उपस्थितौ नियमितीकरणस्य यत् वचनं दत्तम् आसीत् तत् एकवर्षात् अनन्तरम् अपि पूर्णं न कृतम्, येन तेषु महान् असन्तोषः वर्तते।

संविदास्वास्थ्यकर्मचारिणां याचना अस्ति यत् सामान्यप्रशासनविभागस्य २०२३ तमे वर्षस्य नीत्यानुसारं तेषां कृते एनपीएस तथा स्वास्थ्यबीमायाः लाभः प्रदीयताम्। अन्यराज्यानाम् इव प्रतिवर्षं दशप्रतिशतं वेतनवृद्धिः क्रियताम् तथा नियमितकर्मचारिणां समं महङ्गाईभत्तं प्रदीयताम्। कम्युनिटीहेल्थऑफिसर इत्यस्य वेतने पीबीआई इत्यस्य सम्यक् समन्वयः क्रियताम्।

तेषां कथनम् अस्ति यत् यावत् “समानकार्ये समानवेतनम्” इति सिद्धान्तः प्रवर्तितः न भवति तावत् “सार्थकएप्” इत्यस्य पूर्णतया बहिष्कारः क्रियते।

कर्मचारिभिः संचेतना दत्ता यत् यदि तेषां मागाः शीघ्रं न स्वीकृताः भवन्ति तर्हि स्वास्थ्यव्यवस्था पूर्णतया स्थगिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani