मध्यप्रदेशः- जनजातीय संग्रहालये पञ्च दिवसीयो महुआ महोत्सवः 06 जूनतः
- महोत्सवे सांस्कृतिक प्रस्तुतिभिः सह शिल्प-व्यंजन मेला कठपुतली प्रदर्शनं प्रशिक्षणं चापि भोपालम्, 02 जूनमासः (हि.स.)। मध्यप्रदेशशासनस्य राजधानी भोपालनगरे जनजातीयजीवनं, देशजज्ञानपरम्परा तथा सौन्दर्यबोधम् एकाग्रं कृत्वा स्थापितस्य मध्यप्रदेशजन
महुआ महोत्सव का आमंत्रण


- महोत्सवे सांस्कृतिक प्रस्तुतिभिः सह शिल्प-व्यंजन मेला कठपुतली प्रदर्शनं प्रशिक्षणं चापि

भोपालम्, 02 जूनमासः (हि.स.)।

मध्यप्रदेशशासनस्य राजधानी भोपालनगरे जनजातीयजीवनं, देशजज्ञानपरम्परा तथा सौन्दर्यबोधम् एकाग्रं कृत्वा स्थापितस्य मध्यप्रदेशजनजातीयसंग्रहालयस्य त्रयोदशवर्षगाँठसमारोहस्य अवसरॆ आगामि ०६ जूनतः पञ्चदिवसीयः ‘महुआमहोत्सवः’ आयोज्यते।

मध्यप्रदेशजनजातीयसंग्रहालयस्य अध्यक्षः अशोकमिश्रः मङ्गलवासरे जानकारीम् अददात् यत् जनजातीयलोककला-बोलीविकासअकादम्या तथा उत्तरमध्यक्षेत्रसांस्कृतिककेन्द्र-प्रयागराजयोः संयुक्ततत्त्वावधानेन एवं दक्षिणमध्यक्षेत्रसांस्कृतिककेन्द्र-नागपुरस्य सहयोगेन आगामि ०६ तः १० जूनपर्यन्तं जनजातीयसंग्रहालये, श्यामलाहिल्स्, भोपालनगरे अस्य महोत्सवस्य आयोजनं भविष्यति। महोत्सवस्य शुभारम्भः ६ जूनदिने सायं ६.३० वादने भविष्यति। अस्मिन् अवसरे संस्कृतिपर्यटनमन्त्री धर्मेन्द्रसिंहलोधिनो गरिमामयी उपस्थिति भविष्यति।

सः अवदत् यत् महोत्सवस्य शुभारम्भदिवसे सायं ६.३० वादनतः राजा लोहगुण्डी गोण्डवानी आख्यानाधारितं नृत्यनाट्यम् तथा कोरकूजनजातीयगदलीनृत्यस्य प्रस्तुति भविष्यति। महोत्सवे मध्याह्ने ०२ वादनतः ‘धरोहर’ अन्तर्गतं पारम्परिकशिल्पिनः आमन्त्रिताः सन्ति, यस्मिन् बांस, धातु, वस्त्र, खराद, मृत्तिका तथा अन्यानि शिल्पानि समाविष्टानि सन्ति। ‘स्वाद’ अन्तर्गतं देशजव्यञ्जनेषु मध्यप्रदेश, उड़ीसा, त्रिपुरा, असमप्रदेशानां व्यञ्जनानि, ‘उल्लास’ अन्तर्गतं बालकानां कृते कठपुतलीप्रदर्शनं तथा प्रशिक्षणस्य अपि संयोजनं कृतम् अस्ति।

संग्रहालयाध्यक्षः अवदत् यत् महोत्सवे ७ जून २०२६ दिनाङ्के अश्विनयादवः तथा सहचराः, खरगोनतः निमाड़ीगायनम्, लायकरामः तथा सहचराः, उत्तराखण्डतः तांदीनृत्यम्, गजाधरः तथा सहचराः, सोनभद्रतः (उत्तरप्रदेशः) करमानृत्यम्, अशोकगुड्डू तथा सहचराः, हरियाणातः पनिहारीनृत्यम् एवं चन्द्रमाधवबारिक-भोपालेन पुनर्संयोजिते ‘महाबलीछत्रसालबुन्देलकेसरी’ इत्यस्य जीवनम् अवदानं च आधारितं नृत्यनाट्यं प्रस्तुतं भविष्यति।

महोत्सवस्य तृतीयदिने ८ जून २०२६ दिनाङ्के शीलात्रिपाठी तथा सहचराः, भोपालतः बघेलीगायनम्, रोसनदेबबर्मा तथा सहचराः, त्रिपुरातः मोसाकसुरमणिनृत्यम्, लायकरामः तथा सहचराः, उत्तराखण्डतः हारुलनृत्यम्, गजाधरः तथा सहचराः, सोनभद्रतः (उत्तरप्रदेशः) डोमकचनृत्यम्, अशोकगुड्डू तथा सहचराः, हरियाणातः घूमरनृत्यम् एवं संगीताशर्मा तथा सहचराः, नवदेहलीतः शिप्रानृत्यनाटिकायाः प्रथमवारं प्रस्तुति भविष्यति।

०९ जून २०२६ दिनाङ्के सम्प्रियापूजा तथा सहचराः, दुर्गतः (छत्तीसगढ़ः) पण्डवानीगायनम्, रोसनदेबबर्मा तथा सहचराः, त्रिपुरातः होजागिरिनृत्यम्, नन्दाकुमारक्षेत्री तथा सहचराः, सिक्किमतः सिंग्गीछामनृत्यम्, जुलियटलालियंटलुआंगी तथा सहचराः, मिजोरमतः चेरावबैम्बूनृत्यम्, निरंजनसाहू तथा सहचराः, उड़ीसातः रणपानृत्यम्, डूगरचन्दः तथा सहचराः, राजस्थानतः आंगीनृत्यम्, बृजभानमरावी तथा सहचराः, उत्तरप्रदेशतः झूमरनृत्यम्, मुरारीलालभार्वे तथा सहचराः, डिण्डोरीतः (मध्यप्रदेशः) गुदुमबाजनृत्यम्, उदयकुमारः तथा सहचराः, तेलङ्गाणातः माथुरीनृत्यम्, एम् महादेवमूर्तिः तथा सहचराः, कर्नाटकतः कमसालेनृत्यम्, जे अरविन्दः तथा सहचराः, आन्ध्रप्रदेशतः तपेटगुल्लूनृत्यस्य प्रस्तुति दास्यन्ति।

तथा एव महोत्सवस्य समापनदिने १० जून २०२६ दिनाङ्के वन्दनामिश्रा तथा सहचराः, प्रयागराजतः अवधीगायनम्, नन्दाकुमारक्षेत्री तथा सहचराः, सिक्किमतः सिंग्गीछामनृत्यम्, जुलियटलालियंटलुआंगी तथा सहचराः, मिजोरमतः चेरावबैम्बूनृत्यम्, निरंजनसाहू तथा सहचराः, उड़ीसातः रणपानृत्यम्, डूगरचन्दः तथा सहचराः, राजस्थानतः गैरनृत्यम्, बृजभानमरावी तथा सहचराः, उत्तरप्रदेशतः सैलाकरमानृत्यम्, मुरारीलालभार्वे तथा सहचराः, डिण्डोरीतः (मध्यप्रदेशः) गुदुमबाजनृत्यम्, उदयकुमारः तथा सहचराः, तेलङ्गाणातः माथुरीनृत्यम्, एम् महादेवमूर्तिः तथा सहचराः, कर्नाटकतः कमसालेनृत्यम्, जे अरविन्दः तथा सहचराः, आन्ध्रप्रदेशतः तपेटगुल्लूनृत्यस्य प्रस्तुतिः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani