Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 जूनमासः (हि.स.)।
प्रधानमन्त्रिराष्ट्रियबालपुरस्कारस्य २०२६ कृते नामाङ्कनप्रक्रिया प्रारब्धा अस्ति। अस्य कृते आवेदनस्य तथा नामाङ्कनस्य अन्तिमतिथिः ३१ जुलाई २०२६ अस्ति।
अयं पुरस्कारः तेषां बालकानां कृते प्रदीयते ये विविधक्षेत्रेषु असाधारणोपलब्धीः प्राप्तवन्तः। महिला एवं बालविकासमन्त्रालयेन मङ्गलवासरे उक्तं यत् एषः पुरस्कारः राष्ट्रपतिना प्रदीयते।
पञ्चतः अष्टादशवर्षपर्यन्तं आयुवर्गस्य बालकाः ३१ जुलाई २०२६ पर्यन्तं अस्य कृते पात्राः सन्ति। केनापि व्यक्तिना संस्थया वा नामाङ्कनं कर्तुं शक्यते यदा तु बालकाः स्वयम् अपि आवेदनं कर्तुं शक्नुवन्ति।
पुरस्काराः षट्सु श्रेणीषु प्रदास्यन्ते यस्मिन् शौर्यं, समाजसेवा, पर्यावरणं, क्रीडा,कला एवं संस्कृतिः, विज्ञानं एवं प्रौद्योगिकी च समाविष्टानि सन्ति।
आवेदनानि केवलम् ऑनलाइनमाध्यमेन राष्ट्रियपुरस्कारपोर्टल इत्यत्र स्वीकृतानि भविष्यन्ति। आवेदनार्थं नाम जन्मतिथिः आधारसंख्या मोबाइलसंख्या तथा ईमेल इत्यादिविवरणानि दातव्यानि भविष्यन्ति। आवेदकेन उपलब्धनामाङ्कनसूच्यां “प्रधानमन्त्रिराष्ट्रियबालपुरस्कार २०२६” इत्यस्य चयनं कृत्वा सम्बन्धितश्रेण्यां आवेदनं कर्तव्यम्।
आवेदनपत्रस्य सह उपलब्धेः तथा तस्याः प्रभावस्य अधिकतमं १००० शब्दपरिमितं विवरणं आवश्यकप्रमाणपत्राणि तथा नवीनचित्रस्य अपलोडनम् अनिवार्यम् अस्ति।
मन्त्रालयेन अभिभावकेभ्यः शिक्षकेभ्यः सामाजिकसंस्थाभ्यः नागरिकेभ्यः च आह्वानङ्कृतः यत् ते योग्यप्रतिभाशालिबालकान् अस्य सम्मानस्य कृते आवेदनं कर्तुं अथवा नामाङ्कनं कारयितुं सहयोगं कुर्वन्तु।
-----------
Hindusthan Samachar / Dheeraj Maithani