Enter your Email Address to subscribe to our newsletters

रायपुरम् 02 जूनमासः (हि. स.)।
प्रधानमन्त्रिणः नरेन्द्र मोदिनोऽ नुसारं कृषकान् आर्थिकरूपेण सशक्तान् कर्तुं सञ्चाल्यमाना प्रधानमन्त्रीकिसानसम्माननिधियोजना मुंगेलीजनपदस्य कृषकाणां कृते आधाररूपेण सिद्धा भवति।
जिलायां प्रधानमन्त्रीकिसानसम्माननिधियोजनायाः माध्यमेन सहस्रशः कृषकाः लाभान्विताः भवन्ति, येन कृषिक्षेत्रे सकारात्मकपरिवर्तनं दृश्यते। योजनायाः माध्यमेन प्राप्ता आर्थिकसहायता कृषकान् कृषिकार्येषु महत् रक्षणं प्रददाति। लोरमी विकासखण्डस्य करूहानारग्रामनिवासी कृषकः चुन्नूलाल साहू प्रधानमन्त्रीकिसानसम्माननिधियोजनायाः प्रशंसां कुर्वन् उक्तवान् यत् योजनायाः अन्तर्गतं प्रतिवर्षं प्राप्ता ०६ सहस्ररूप्यकाणां सहायतराशिः कृषिकार्येषु अत्यन्तं उपयोगिनी सिद्धा भवति। तेन उक्तं यत् अस्याः राशेः माध्यमेन बीजानि, उर्वरकम् तथा कृषिकार्येषु आवश्यकाः व्ययाः सुगमतया पूर्यन्ते, येन आर्थिकभारः न्यूनः अभवत्।
कृषकः साहू उक्तवान् यत् तस्मै अद्यपर्यन्तं योजनायाः २२ किश्तीनां लाभः प्राप्तः अस्ति। तेन उक्तं यत् सर्वकारेण कृषकहिताय सञ्चाल्यमाना एषा योजना कृषकाणां कृते सम्बलरूपा अभवत्। समये प्राप्तया राश्या कृषेः सज्जाकरणे सुविधा भवति तथा कृषिकार्येषु आत्मविश्वासः वर्धितः अस्ति। तेन प्रधानमन्त्री मोदी तथा मुख्यमन्त्री विष्णुदेव साय इत्येतयोः प्रति आभारं व्यक्तीकृत्य उक्तं यत् शासनस्य कृषकहितैषियोजनाभिः ग्रामीणअर्थव्यवस्था सुदृढा भवति तथा कृषकाः आत्मनिर्भराः भवन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani