राष्ट्रपतिः, उपराष्ट्रपतिःकेंद्रीय मंत्रिणश्च समेत्य विभिन्न नेतारस्तेलंगाना स्थापना दिवसेऽददुश्शुभकामनाः
नवदिल्ली, 02 जूनमासः (हि.स.)। तेलङ्गानाराज्यस्थापनादिवसस्य अवसरे राष्ट्रपतिः, उपराष्ट्रपतिः, लोकसभाध्यक्षः, केन्द्रीयमन्त्रिणः, विभिन्नराज्यानां मुख्यमन्त्रिणश्च राज्यस्य जनतां शुभकामनाः प्रदाय तस्य उज्ज्वलभविष्यस्य, निरन्तरविकासस्य समृद्धेश्च का
तेलंगाना राज्य का मानचित्र ( प्रतीकात्मक चित्र)।


नवदिल्ली, 02 जूनमासः (हि.स.)।

तेलङ्गानाराज्यस्थापनादिवसस्य अवसरे राष्ट्रपतिः, उपराष्ट्रपतिः, लोकसभाध्यक्षः, केन्द्रीयमन्त्रिणः, विभिन्नराज्यानां मुख्यमन्त्रिणश्च राज्यस्य जनतां शुभकामनाः प्रदाय तस्य उज्ज्वलभविष्यस्य, निरन्तरविकासस्य समृद्धेश्च कामनाम् अकुर्वन्।

राष्ट्रपतिः द्रौपदीमुर्मुस्स्वस्य एक्स-पोस्ट् मध्ये तेलङ्गानाराज्यस्य जनान् अभिनन्द्य उक्तवती यत् एतद्राज्यं समृद्धसांस्कृतिकविरासतया कर्मठनागरिकैश्च सम्पन्नम् अस्ति। सा अवदत् यत् तेलङ्गानाराज्येन नवाचारविकासयोः क्षेत्रे उल्लेखनीया प्रगतिः कृता अस्ति तथा राज्यस्य जनानां निरन्तरकल्याणस्य उन्नतेश्च कामना कृता।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन् उक्तवान् यत् तेलङ्गानाराज्यं स्वस्य समृद्धसांस्कृतिकनिक्षेपेण जीवन्तपरम्पराभिश्च प्रसिद्धम् अस्ति। सः अवदत् यत् राज्यस्य जनानां रचनात्मकता, नवाचारः, परिश्रमः दृढताच देशस्य प्रगत्यां महत्त्वपूर्णं योगदानं दत्तवन्तः। तेन एषः अवसरः विकसितभारतस्य निर्माणार्थं सामूहिकप्रयत्नानां प्रेरणारूपेण वर्णितः।

लोकसभाध्यक्षः ओमविरला तेलङ्गानाराज्यं विशिष्टसांस्कृतिकपरिचययुक्तं, जीवन्तपरम्परासम्पन्नं, प्राकृतिकसौन्दर्ययुक्तं च राज्यं वर्णयन् अवदत् यत् स्थापनादिवसः राज्यस्य विकासयात्रायाः उपलब्धीनां च प्रतीकः अस्ति। तेन प्रदेशवासिनां जीवने उन्नतेः, सौहार्दस्य समृद्धेश्च कामना कृता।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः अवदत् यत् तेलङ्गानाराज्यं स्वस्य जीवन्तसंस्कृत्या उद्यमशीलभावनया च विशिष्टपरिचयं धारयति। तेन राज्यस्य निरन्तरप्रगतेः समृद्धेश्च कामना कृता तथा उक्तं यत् अस्य उपलब्धयः भारतस्य गौरवं अधिकं वर्धयिष्यन्ति।

केन्द्रीयआवासनगरीयकार्य मन्त्री मनोहरलालः तेलङ्गानास्थापनादिवसे प्रदेशवासिभ्यः शुभकामनाः प्रदाय उक्तवान् यत् समृद्धविरासताभिः प्राकृतिकसौन्दर्येण च परिपूर्णम् एतद्राज्यं विकासप्रगत्योः पथि निरन्तरम् अग्रे गच्छतु। तेन सर्वेषां नागरिकानां जीवने सुखस्य, समृद्धेः, खुशहाल्याश्च वृद्धेः कामना कृता।

केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंहचौहानः तेलङ्गानाराज्यस्य अनुपमकलासंस्कृतेः, समृद्धविरासतायाः प्राकृतिकसौन्दर्यस्य च उल्लेखं कृत्वा प्रदेशवासिभ्यः शुभकामनाः दत्तवान्। सः अवदत् यत् राज्यं निरन्तरविकासप्रगत्योः मार्गे गतिमानं भवतु तथा सर्वेषां जनानां जीवने सुखसमृद्ध्योः खुशहाल्याश्च विस्तारः भवतु।

केन्द्रीयमन्त्री गिरिराजसिंहः तेलङ्गानाराज्यस्य समृद्धसांस्कृतिकनिक्षेपं, गौरवशालिनं इतिहासं, लोकपरम्पराः विविधतां च नमनं कृत्वा राज्यस्थापनादिवसस्य शुभकामनाः दत्तवान्।

भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः अवदत् यत् तेलङ्गानाराज्यं स्वस्य समृद्धसांस्कृतिकसंपदा जीवन्तजनभावनया च प्रसिद्धम् अस्ति। तेन राज्यस्य निरन्तरप्रगतेः नागरिकानां सुखस्य, समृद्धेः, उत्तमस्वास्थ्यस्य च कामना कृता।

कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे तेलङ्गानागठनदिवसं भारतस्य लोकतान्त्रिकयात्रायाः ऐतिहासिकं चरणं वर्णयन् अवदत् यत् राज्यस्य निर्माणं लक्षशः जनानां संघर्षस्य, त्यागस्य, आकाङ्क्षाणां च परिणामः अस्ति। तेन तेलङ्गानान्दोलनस्य शहीदेषु श्रद्धाञ्जलिः अर्पिता तथा उक्तं यत् कांग्रेससर्वकारः प्रजाला तेलङ्गाना इति सङ्कल्पस्य साकारतायै कार्यं करोति।

मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः तेलङ्गानाराज्यस्य समृद्धसांस्कृतिकसंपदः, कलायाः कर्मठतायाश्च प्रशंसां कृत्वा राज्यस्य निरन्तरप्रगतेः कामना कृता।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः तेलङ्गानाराज्यं गौरवशालिनः इतिहासस्य, जीवन्तलोकपरम्पराणां, प्राकृतिकसौन्दर्यस्य च सम्पन्नं राज्यं वर्णयन् प्रदेशस्य निरन्तरोन्नतेः समृद्धेश्च कामना कृता।

---------------

Hindusthan Samachar / Dheeraj Maithani