Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः स्वस्य एक्सपटले उक्तवान् यत् दृढनिश्चयः आत्मसंयमश्च सा शक्तिः अस्ति या कठिनात् कठिनतरं मार्गम् अपि सुलभं करोति। अद्य अस्माकं युवा सहचराः अपि एतेनैव संकल्पेन राष्ट्रनिर्माणकार्ये निरन्तरं संलग्नाः सन्ति।
तेन अस्य सन्देशस्य सह एतत् सुभाषितम् अपि सहकृतं यत्
“निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः।
अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥”
अयं श्लोकः महात्मना विदुरेण रचितायाः ‘विदुरनीतेः’ महाभारतस्य उद्योगपर्वणः गृहीतः अस्ति।
अस्मिन् सुभाषिते जीवनस्य सफलता बुद्धिः कार्यप्रणाल्याः च सारः निहितः अस्ति। अस्मात् शिक्षा प्राप्यते यत् सफलतायै दृढसंकल्पः निरन्तरता समयपालनम् आत्मनियन्त्रणं च अत्यन्तम् आवश्यकम् अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani