Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः तेलंगानाराज्यस्य स्थापनादिवसस्य अवसरः उपलक्ष्य जनान् अभिनन्दितवान्। तेन उक्तं यत् अस्य राज्यस्य महान् इतिहासः अद्भुता संस्कृति च अस्ति। केन्द्रसरकारः तेलंगानाराज्यस्य विकासे पूर्णसहयोगं दातुं प्रतिबद्धा अस्ति।
प्रधानमन्त्री नरेन्द्रमोदी एक्समाध्यमे लिखितवान् यत् “तेलंगानाराज्यस्थापनादिवसस्य शुभावसरे तेलंगानाराज्यस्य जनानां प्रति हार्दिकाः शुभकामनाः। तेलंगानाराज्यस्य जनाः स्वस्य सृजनशीलतायाः व्यापारकौशलस्य च कृते प्रसिद्धाः सन्ति। अस्य राज्यस्य महान् इतिहासः अस्ति तथा च अद्भुता संस्कृति अस्ति या साहसस्य दृढसंकल्पस्य संघर्षभावनायाश्च प्रतीकः अस्ति।”
तेन अग्रे लिखितं यत्“केन्द्रसर्वकारः विकसितभारतस्य अस्माकं स्वप्नस्य साकारतायै तेलंगानाराज्यस्य विकासयात्रायां पूर्णसहयोगं दातुं प्रतिबद्धा अस्ति। अहं प्रार्थये यत् तेलंगानाराज्यस्य सर्वे जनाः उत्तमस्वास्थ्यं सुखं सफलतां च प्राप्नुयुः।”
प्रधानमन्त्री मोदी उक्तवान् यत्तेलंगानाराज्यस्य जनाः स्वस्य नवोन्मेषशक्त्या कार्यनिष्ठया च प्रसिद्धाः सन्ति। एतत् राज्यं स्वस्य भव्यसंस्कृत्या इतिहासेन च विख्यातम् अस्ति... साहसपूर्णं दृढनिश्चययुक्तं च। राज्यस्य जनानां उत्तमस्वास्थ्याय सफलतायै च प्रार्थये।”
---------------
Hindusthan Samachar / Dheeraj Maithani