प्रवक्तृसंवर्गस्य 624 पदानां परिणामो घोषितः
--18 विषयानां 2,253 अभ्यर्थिनः साक्षात्काराय सूचीबद्धाः --1.92 लक्षतः अधिकाः अभ्यर्थिनः परीक्षायां सम्मिलिताः --साक्षात्कार सम्बंधिनः आवश्यक दिङ्-निर्देशाः पृथक्तया निर्गमिष्यन्ति प्रयागराजः/लखनऊ, 02 जूनमासः (हि.स)।उत्तरप्रदेशशिक्षासेवाचनआयोगस्य
डॉ प्रशांत कुमार


--18 विषयानां 2,253 अभ्यर्थिनः साक्षात्काराय सूचीबद्धाः

--1.92 लक्षतः अधिकाः अभ्यर्थिनः परीक्षायां सम्मिलिताः

--साक्षात्कार सम्बंधिनः आवश्यक दिङ्-निर्देशाः पृथक्तया निर्गमिष्यन्ति

प्रयागराजः/लखनऊ, 02 जूनमासः (हि.स)।उत्तरप्रदेशशिक्षासेवाचनआयोगस्य अध्यक्षः डॉ प्रशान्तकुमारः अवदत् यत् आयोगेन विज्ञापनसंख्या ०२ २०२२ अन्तर्गतस्य प्रवक्तृसंवर्गस्य ६२४ पदानां कृते आयोजितायाः लिखितपरीक्षायाः परिणामः मङ्गलवासरे घोषितः। लिखितपरीक्षायां सफलानाम् अभ्यर्थिनां विषयवारं श्रेणीशः च सूची आयोगस्य आधिकारिकजालस्थले उपलब्धा कृता अस्ति।

डॉ प्रशान्तकुमारः अवदत् यत् ०९ तथा १० मई २०२६ दिनयोः आयोजितायां लिखितपरीक्षायां १८ विषयाणाम् आहत्य १ ९२ ९३४ अभ्यर्थिनः सम्मिलिताः आसन्। आयोगेन परीक्षापरिणामस्य आधारेण आहत्य २२५३ अभ्यर्थिनः साक्षात्कारार्थम् औपबन्धिकरूपेण सफलाःसूचीबद्धा घोषिताः। एतेषु भौतिकविज्ञानम् जीवविज्ञानम् गृहविज्ञानम् इतिहासः शिक्षाशास्त्रम् आङ्ग्लभाषा कृषिविज्ञानं वाणिज्यम् समाजशास्त्रं नागरिकशास्त्रं गणितम् अर्थशास्त्रं संस्कृतं मनोविज्ञानं रसायनविज्ञानं भूगोलः कला तथा हिन्दीविषयः समाविष्टाः सन्ति।

सः अवदत् यत् सूचीबद्धानाम् अभ्यर्थिनां विषयवाराः श्रेणीवाराश्च अनुक्रमाङ्काः आयोगस्य जालस्थले www upessc up gov in इत्यत्र प्रदर्शिताः सन्ति। अभ्यर्थिनः जालस्थलं गत्वा स्वपरिणामं द्रष्टुं शक्नुवन्ति।

डॉ प्रशान्तकुमारः सफलाभ्यर्थिभ्यः शुभकामनाः प्रदाय अवदत् यत् ते आयोगस्य जालस्थले नियमितरूपेण अद्यतनसूचनाः पश्यन्तु तथा निर्धारिततिथेः पूर्वं स्वसाक्षात्कारपत्रं डाउनलोड कृत्वा आवश्यकसज्जां सुनिश्चितां कुर्वन्तु।

सः अवदत् यत् साक्षात्कारस्य विषयवारं तिथिवारं च विस्तृतसूचना तथा आवश्यकदिङ्निर्देशाः ०३ जून २०२६ दिनाङ्के आयोगस्य जालस्थले प्रदर्शिताः भविष्यन्ति। एतदतिरिक्तम् अभ्यर्थिभ्यः तेषां पञ्जीकृत ईमेल आईडी तथा मोबाइलसंख्यायां एसएमएस माध्यमेन अपि सूचना प्रेषिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani