वित्तमन्त्री ओ.पी.चौधरीं सर्व-गुजराती-समाजेन ५१,००१ रुप्यकाणां योगदानं समर्पितम्, हनुमान-प्रतिमा-स्थापनाय सहायता प्राप्ता
रायगढ़नगरम्, ०२ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य वित्तमन्त्री एवं रायगढ़-विधायकः ओ. पी. चौधरी इत्यस्य जन्मदिवसावसरे मङ्गलवासरे सर्व-गुजराती-समाजः श्रद्धा-सम्मान-सामाजिक-सहभागितायाः परिचयं दत्त्वा पहाड़-मन्दिरे भगवत: हनुमतः प्रतिमा-स्थापनाय ५१,००
ओपी चौधरी के जन्मदिन पर चेक सौंपते हुए


रायगढ़नगरम्, ०२ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य वित्तमन्त्री एवं रायगढ़-विधायकः ओ. पी. चौधरी इत्यस्य जन्मदिवसावसरे मङ्गलवासरे सर्व-गुजराती-समाजः श्रद्धा-सम्मान-सामाजिक-सहभागितायाः परिचयं दत्त्वा पहाड़-मन्दिरे भगवत: हनुमतः प्रतिमा-स्थापनाय ५१,००१ रुप्यकाणां सहयोगं प्रदत्तवान्।

सर्व-गुजराती-समाजस्य अध्यक्षः मुकेश-जैन: इत्यस्य नेतृत्वे समाजप्रतिनिधिमण्डलेन वित्तमन्त्री ओ. पी. चौधरी इत्यस्मै ५१,००१ रुप्यकाणां चेक् समर्प्य जन्मदिवसस्य हार्दिकाः शुभकामनाः दत्ताः। अस्मिन् अवसरे समाजस्य सदस्यैः तस्य जनहितकारी-कार्याणां, विकासोन्मुख-चिन्तनस्य तथा समाज-प्रति सकारात्मक-भावनायाः प्रशंसा कृता।

समाजस्य पदाधिकारिभिः गणमान्य-नागरिकैः च सर्व-गुजराती-समाजस्य भवन-निर्माणाय मार्गप्रशस्तिकरणे तथा दीर्घकालीन-आवश्यकतानां पूर्तये वित्तमन्त्रिणः विशेषं आभारं प्रकटितम्।

अस्मिन् अवसरे मुकेश-जैन, पूर्व-पार्षदः दिवेश-सोलङ्की, तनु-बेन चावड़ा, नूतन-बेन चावड़ा, शांतिलाल: खोडियार:, अजीत: मेहता, कमलेश: जैन, गुणवंत: चावड़ा, श्वेताम्बर-जैन-समाजस्य अध्यक्षः नितेश-शाह: इत्यादयः बहवः जनाः सामूहिकरूपेण ओ. पी. चौधरी इत्यस्मै जन्मदिवसस्य शुभकामनाः दत्त्वा सर्व-गुजराती-समाजस्य भवन-निर्माणस्य मार्गप्रशस्तिकरणाय तस्मै धन्यवादं दत्तवन्तः।

Hindusthan Samachar / Divya Ranjan