Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री हिमन्तबिस्वसरमा मङ्गलवासरे कृषिभवने केन्द्रीयकृषि-किसानकल्याण तथा ग्रामीणविकासमन्त्री शिवराजसिंहचौहानं समामिलत्। अस्मिनुपवेशने असमराज्ये कृषि तथा ग्रामीणविकासविभागेन सञ्चालितानां विविधकेन्द्रीययोजनानां प्रगतिः समीक्षिता तथा अनेकमहत्त्वपूर्णविषयेषु व्यापकचर्चा कृता।
उपवेशने शिवराजसिंहचौहानेन राज्याय कृषि-अवसंरचनाकोषस्य, प्रधानमन्त्रिआवासयोजना-ग्रामीणस्य, मनरेगायाः तथा अन्यासां केन्द्रीययोजनानां अधिकतमलाभप्रदानार्थं केन्द्रसर्वकारस्य पूर्णसहयोगस्य आश्वासनं दत्तम्।
ग्रामीणविकासमन्त्रालयस्य कार्यसूच्यां सचिवः रोहितकंसलः अवदत् यत् प्रधानमन्त्रिआवासयोजना-ग्रामीण तथा मनरेगाव्यवस्थायाः तकनीकीबाधाः पूर्णतया निराकृताः सन्ति। मनरेगायाः अन्तर्गतं असमसर्वकारस्य मागण्यानुसारं धनराशेः आवंटनं कृतम् अस्ति। आगामि एकजुलाईदिनाङ्कतः सम्पूर्णदेशे मनरेगायाः स्थाने विकसितभारत-रोजगार एवं आजीविकामिशन (ग्रामीण) प्रवर्तिष्यते।
उपवेशने असमसर्वकारेण चायबागानश्रमिकेभ्यः भूमेः स्वामित्वाधिकारस्य (पट्टा) प्रदानस्य ऐतिहासिकपदक्षेपस्य प्रशंसा कृता। केन्द्रीयमन्त्री निर्देशान् अददात् यत् एतेभ्यः श्रमिकेभ्यः प्रधानमन्त्रिआवासयोजना-ग्रामीणस्य लाभप्रदानार्थं सर्वकारः विशेषसर्वेक्षणगवाक्षः उद्घाटयिष्यति, येन पात्रलाभार्थिनां नामानि डिजिटलअभिलेखे पञ्जीकर्तुं शक्यन्ते।
अस्मिन् अवसरे केन्द्रीयमन्त्री चौहानेन असमराज्यस्य विशिष्टजलवायोः तथा मृद्गुणविशेषाणां आधारेण निर्मितायाः कृषिकार्ययोजनायाः प्रारूपं मुख्यमन्त्रिणे हिमन्तबिस्वसरमा इत्यस्मै समर्पितम्। उपवेशने कृषि तथा ग्रामीणविकाससम्बद्धेषु अनेकमहत्त्वपूर्णनिर्णयेषु सहमति अभवत्।
ग्रामीणविकासमन्त्रालयस्य अधिकारिणः अवदन् यत् महिलासशक्तीकरणस्य दिशि असमराज्येन लक्ष्याधिकाः नव-लक्षाधिकाः ‘लखपतिदीदी’ निर्माय उल्लेखनीया उपलब्धिः प्राप्ता। एतासां महिलानां उद्यमान् अधिकसशक्तान् कर्तुं असमकृषिविश्वविद्यालयस्य इनक्यूबेटरसंस्थाभिः सह मिलित्वा कार्यं त्वरितं क्रियते। कृषिमन्त्रालयस्य सचिवः आतिशचन्द्रः मुख्यमन्त्रिणं महिलाकृषकेभ्यः कृषि-पावरवीडर-यन्त्रप्रदानदिशि क्रियमाणप्रयत्नैः अवगतं कृतवान्। अतिरिक्तरूपेण राष्ट्रियखाद्यतेलमिशन-ऑयलपामस्य विस्तारविषये अपि चर्चा अभवत्।
राज्ये सुरक्षितकृषेः प्रोत्साहनार्थं अस्मिन् वर्षे १५०० नवीनबांसपॉलीहाउस स्वीकृताः। कृषि-अवसंरचनायाः सुदृढीकरणार्थं राष्ट्रियकृषिविकासयोजनायाः अन्तर्गतं पेस्टिसाइडपरीक्षणप्रयोगशालायाः तथा खाद्यतैलपरीक्षणप्रयोगशालायाः भवनानां अनुमोदनं दत्तम्। असमराज्यस्य जैविकउत्पादानां अन्ताराष्ट्रियविपणनस्य तथा निर्यातस्य प्रोत्साहनार्थं अपेडा तथा नेशनलऑर्गेनिककोऑपरेटिवलिमिटेड इत्येताभ्यां सह सहकारिता क्रियते, येन कृषकाः व्यापकहैण्डहोल्डिंगसहायतां प्राप्स्यन्ति।
असमराज्यस्य समृद्धजैवविविधतायाः संवर्धनविषये अपि उपवेशने विस्तृतचर्चा अभवत्।
--------------
Hindusthan Samachar / Dheeraj Maithani