श्रीनगर अंताराष्ट्रियविमानस्थानके 1 अक्टूबरतः 15 दिनेभ्यः सर्वाणि उड्डयनानि भविष्यन्ति निलंबितानि
श्रीनगरम्, 02 जूनमासः (हि.स.)। श्रीनगर-अन्ताराष्ट्रियविमानस्थानके अक्टोबरमासस्य प्रथमदिनात् पञ्चदशदिनपर्यन्तं सर्वाणि विमानयानानि निलम्बितानि भविष्यन्ति, यतः धावनपथो महत्त्वपूर्णजीर्णोद्धारसंरक्षणकार्यं कर्तव्यम्अस्ति। एषा द्विसाप्ताहिकी सञ्चाल
श्रीनगर अंताराष्ट्रियविमानस्थानके 1 अक्टूबरतः 15 दिनेभ्यः सर्वाणि उड्डयनानि भविष्यन्ति निलंबितानि


श्रीनगरम्, 02 जूनमासः (हि.स.)।

श्रीनगर-अन्ताराष्ट्रियविमानस्थानके अक्टोबरमासस्य प्रथमदिनात् पञ्चदशदिनपर्यन्तं सर्वाणि विमानयानानि निलम्बितानि भविष्यन्ति, यतः धावनपथो महत्त्वपूर्णजीर्णोद्धारसंरक्षणकार्यं कर्तव्यम्अस्ति। एषा द्विसाप्ताहिकी सञ्चालनबन्दी जम्मूकाश्मीरस्य पर्यटनक्षेत्राय महत् आघातं जनयितुं शक्नोति, यतः एषा दुर्गापूजायाः व्यस्तपर्वकालस्य सह प्रत्यक्षतया सम्बद्धा अस्ति। अस्मिन् काले परम्परानुसारं पश्चिमबङ्गालात् बहुसंख्यकेन पर्यटकाः घाटीप्रदेशं आगच्छन्ति तथा यात्रासञ्चालकानां मतम् अस्ति यत् अस्य कारणेन महद् आर्थिकहानिः भविष्यति।

विमानस्थानकस्य अधिकारिणां अनुसारं पूर्णबन्देः पूर्वं चरणबद्धरूपेण संरक्षणकार्यं आरभ्यते। जुलैमासात् आरभ्य विमानस्थानकस्य सञ्चालनं प्रति सप्ताहं द्वयोः दिनयोः कृते बन्दं भविष्यति। तत् अक्टोबरमासस्य प्रथमदिनात् पञ्चदशदिनपर्यन्तं पूर्णबन्द्या समाप्तिं गमिष्यति। अधिकारिभिः उक्तं यत् परिचालनसुरक्षायै धावनपथो जीर्णोद्धारः अनिवार्योऽस्ति। तैः एतदपि सूचितं यत् भारतीयवायुसैनायाः नोटिस् टू एयरमेन इत्यस्य प्रकाशनानन्तरं षष्ठ-एप्रिलदिनात् एव विमानप्रतिबन्धाः प्रवर्तिताः सन्ति। प्रचलित-अभियान्त्रिककार्याणां कारणेन विमानस्थानकस्य सञ्चालनसमयः अत्यन्तं न्यूनः जातः अस्ति तथा वर्तमानकाले विमानयानानि केवलं प्रातः अष्टवादनात् सायं पञ्चवादनपर्यन्तं सञ्चालितानि भवन्ति, यत् पूर्वस्थितेः सायं सप्तवादनात् रात्रेः दशवादनपर्यन्तस्य समयात् अत्यल्पम् अस्ति।

अक्टोबरमासे विमानस्थानकस्य बन्दीभविष्यतीति आशङ्कां दृष्ट्वा आतिथ्ययात्राक्षेत्रयोः सम्बद्धाः हितधारकाः अधिकारिभ्यः समयसीमायाः पुनर्विचारं कर्तुं निवेदनं कुर्वन्ति। तेषां कथनम् अस्ति यत् वर्षस्य अत्यन्तव्यस्ते घरेलूपर्यटनकाले वायुसम्पर्कस्य बन्दीकरणेन स्थानीय-अर्थव्यवस्थायाः महान् हानिः सम्भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani