Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, ०२ जूनमासः (हि.स.)। मुख्यमन्त्री मोहनचरण-माझी इत्येषः उक्तवान् यत् व्याघ्रिणी “जिनत्” इत्यस्याः द्वारा सिमिलिपाल-बाघ-अभयारणस्य अनुकूल-परिसरे चतुर्णां शावकानां जन्म ओडिशा-राज्यस्य व्याघ्र-संरक्षण-प्रयासानां कृते महती सफलता अस्ति।
मुख्यमन्त्री मङ्गलवासरे सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् ओडिशा-राज्यस्य प्राकृतिक-सम्पदां तथा वन्यजीव-संरक्षण-क्षेत्रे अद्य गौरवपूर्णः अध्यायः संयोजितः अस्ति। महाराष्ट्र-राज्यस्य ताडोबा-अन्धारी-व्याघ्र-अभयारणात् स्थानान्तरिता बाघिनी “जिनत्” सिमिलिपालस्य अनुकूल-प्राकृतिक-परिसरे चतुर्णां शावकानां जन्म दत्तवती।
तेन उक्तं यत् एषा उपलब्धिः केवलं राज्ये व्याघ्र-सङ्ख्यावृद्धौ एव न सीमिता, अपि तु जैव-विविधता-संरक्षणाय तथा वन्यजीवानां कृते सुरक्षित-स्थिर-आवास-निर्माणाय सर्वकारस्य दूरदर्शी-नीतेः प्रमाणम् अपि अस्ति। इयं सफलता राज्यस्य प्रभावी-संरक्षण-रणनीतेः तथा वन-प्रबन्धनस्य प्रतिबद्धतां दर्शयति।
मुख्यमन्त्री अवदत् यत् व्याघ्रिणी-शावकयोः सुरक्षा सुनिश्चितुं वन-विभागेन विशेष-प्रयासाः कृताः सन्ति। तयोः गतिविधयः निरन्तरं निरीक्ष्यन्ते येन तयोः सुरक्षा तथा संरक्षणं सुनिश्चितं भवेत्।
सः उक्तवान् यत् वनकर्मचारिणां निष्ठापूर्ण-निरीक्षणेन तथा प्रभावी-संरक्षण-नीत्या ओडिशा अधुना वन्यजीवानां सुरक्षित-आश्रय-स्थलत्वेन स्वपरिचयं स्थापयितुं सफलः जातः। राज्यस्य वन्यजीव-संरक्षण-प्रयासाः राष्ट्रिय-स्तरे अपि प्रशंसिताः भवन्ति।
मुख्यमन्त्री इदमपि उक्तवान् यत् सिमिलिपालस्य पारिस्थितिक-सन्तुलनं रक्षितुं तथा राज्यस्य वन्यजीव-संरक्षण-योजनाः भविष्ये अधिकं सुदृढाः कर्तुं तस्य सर्वकारः पूर्णतः प्रतिबद्धः अस्ति।
व्याघ्रिणी “जिनत्” द्वारा चतुर्णां शावकानां जन्म ओडिशा-राज्ये व्याघ्र-संरक्षण-कार्यक्रमस्य महत्त्वपूर्णा उपलब्धिः इति मन्यते, येन सिमिलिपाले व्याघ्र-सङ्ख्या-वृद्धेः तथा वन्यजीव-संरक्षणस्य नूतनं बलं प्राप्तुं सम्भावना अस्ति।
Hindusthan Samachar / Divya Ranjan