Enter your Email Address to subscribe to our newsletters

वाराणसी, 02 जूनमासः (हि. स.)।
भाजपायाः नवनियुक्तः जिलाध्यक्षः राम शकल पटेलः मंगलवासरे वाराणस्याः सेवापुरीविधानसभायाः मेंहदीगंज राजातालाब क्षेत्रे जिलाकैम्पकार्यालयस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे पूर्वजिलाध्यक्षः तथा वर्तमाने राज्यमन्त्री हंसराज विश्वकर्मा अपि उपस्थितः आसीत्।
राज्यमन्त्री हंसराज विश्वकर्मा जिलाकैम्पकार्यालयस्य उद्घाटनावसरे उक्तवान् यत् भारतीयजनतापक्षस्य सरकार अधुना केन्द्रे राज्ये च उभयत्र अस्ति तथा जनजनस्य विकासकार्याय स्वकर्तव्यस्य सम्यग् निर्वहनं करोति। दुर्बलानां, शोषितानां, वञ्चितसमाजस्य जनानां कृते सर्वकारस्य योजनानां सूचना तथा लाभः जनजनपर्यन्तं प्रापयितुं भाजपायाः प्रत्येकः कार्यकर्ता दिनरात्रं प्रयत्नशीलः अस्ति। वाराणसीजिलायां समर्पितकार्यकर्तारः सर्वसमाजस्य विकासाय परिश्रमस्य पराकाष्ठां प्राप्तवन्तः। कैम्पकार्यालयस्य उद्घाटनेन कार्यकर्तृणां मिलनाय, उपवेशनाय, उपवेशनानां आयोजनाय तथा क्षेत्रे सक्रियरूपेण कार्यकरणाय एकं केन्द्रं स्थापितम् अभवत्। अत्र प्रतिदिनं जिलाध्यक्षः अपि स्थानीयजनैः सह मिलित्वा तेषां समस्याः श्रोष्यति।
Hindusthan Samachar / Dheeraj Maithani