मुख्यमंत्री धामी चारधाम यात्रामाधृत्य समीक्षोपवेशनम्,प्रदत्ताः अधिकारिभ्यो दिङ्-निर्देशाऽ
देहरादूनम्, 02 जूनमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी चारधामयात्राव्यवस्थानां समीक्षां कुर्वन् अधिकारिभ्यः निर्देशान् दत्तवान् यत् यात्राप्रबन्धनस्य मूलमन्त्रः ‘सुरक्षितयात्रा, सुगमदर्शनं सततसंवादः’ च भवेत्। तेन रात्रेः १० वादनात् प्रभातस्य
सचिवालय में आयोजित उच्चस्तरीय समीक्षा बैठक करते हुए मुख्यमंत्री पुष्कर सिंह धामी।


देहरादूनम्, 02 जूनमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी चारधामयात्राव्यवस्थानां समीक्षां कुर्वन् अधिकारिभ्यः निर्देशान् दत्तवान् यत् यात्राप्रबन्धनस्य मूलमन्त्रः ‘सुरक्षितयात्रा, सुगमदर्शनं सततसंवादः’ च भवेत्। तेन रात्रेः १० वादनात् प्रभातस्य ४ वादनपर्यन्तं चारधामयात्रामार्गेषु वाहनानां गमनागमनस्य निषेधस्य कठोरतया पालनं सुनिश्चितं कर्तुं उक्तम्। सहैव ट्रकवाहनानाम्अन्येषां गुरुवाहनानां च केवलं रात्रिकाले एव सञ्चालनस्य अनुमतिं दातुं निर्देशाः दत्ताः।

मंगलवासरे सचिवालये आयोजितायां उच्चस्तरीयसमीक्षागोष्ठ्यां मुख्यमन्त्री उक्तवान् यत् चारधामयात्रा अधुना द्वितीयं अधिकं च परिस्थितिपूर्णं चरणं प्रविष्टवती अस्ति, यत्र मानसूनऋतुः प्रतिकूलवातावरणं महापरिस्थितिश्च भविष्यतः। अतः सर्वे विभागाः पूर्णसतर्कतया समन्वयेन च कार्यं कुर्वन्तु। मुख्यमन्त्री निर्देशान् दत्तवान् यत् चतुर्षु धामसु श्रद्धालूनां संख्या तथा क्षमतानुसारं दर्शनव्यवस्थायै विस्तृता मानकसञ्चालनप्रक्रिया (एसओपी) निर्मीयताम्।

तेन उक्तं यत् श्रद्धालूनां सुरक्षा राज्यसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति तथा यात्रां उत्तमसमन्वयेन, प्रभाविसंवादेन वैज्ञानिकप्रबन्धनेन च सञ्चालयितव्यम्। कस्मिन्नपि धाम्नि अथवा विश्रामस्थले निर्धारितक्षमतातः अधिका भीड् भवति चेत् अधःस्थितेषु नियंत्रित क्षेत्रं तथा प्रमुखनिरीक्षणीय स्थलेषु यात्रिकाणां गमनागमनं नियन्त्रयितव्यम्। भीड्प्रबन्धनं चरणबद्धवैज्ञानिकरीत्या च क्रियताम्, येन धामेषु अव्यवस्थास्थितिः न उत्पद्येत।

मुख्यमन्त्री धामी अधिकारीन् निर्देशितवान् यत् येषु स्थलेषु श्रद्धालवः निरुद्धाः भवन्ति, तत्र पार्किंग, भोजनम्, पेयजलम्, शौचालयाः तथा अन्याः मूलभूतसुविधाः सम्यग्रूपेण सुनिश्चिताः भवन्तु। सहैव यात्रिकेभ्यः प्रतीक्षासमयः, मार्गस्थितिः तथा अग्रिमव्यवस्थानां विषये सूचना नियमितरूपेण प्रदीयताम्। तेन उक्तं यत् यात्रामार्गेषु सूचनाभावस्य स्थितिः न भवेत्। एतदर्थं सार्वजनिकसूचनाप्रणाली, एलईडी डिस्प्ले, सोशलमीडिया, व्हाट्सएप चैनल तथा एफएम रेडियो माध्यमेन निरन्तरम् अद्यतनसूचना प्रसारणीया। मौसमपरिवर्तनम्, मार्गावरोधः, यातायातजामः तथा दर्शनविलम्बसम्बद्धाः सूचनाः समये एव यात्रिकेभ्यः प्रापणीयाः।

मुख्यमन्त्री संवेदनशीलस्थलेषु जेसीबी, पोकलैंडयन्त्राणि, सैटेलाइटफोन, एम्बुलेंस तथा रक्षणोपकरणानां पूर्वनियुक्तिं सुनिश्चितां कर्तुं निर्देशान् दत्तवान्। तेन अधिकारिभ्यः क्षेत्रेषु स्थित्वा व्यवस्थाः नियमितरूपेण निरीक्षितुं तथा श्रद्धालुभ्यः त्वरितसहायतां प्रदातुं उक्तम्।

गोष्ठ्यां चारधामयात्रासम्बद्धजिलानां जिलाधिकारिणः तथा आरक्ष्यधीक्षकाः व्यवस्थाः नियमितरूपेण निरीक्षितुं निर्देशिताः। सहैव यात्रामार्गेषु सञ्चालितेषु पथिकाश्रयेषु उपहारगृहेषु, भोजनालयेषुषु मूल्यसूचीषु अनिवार्यप्रदर्शनं खाद्यपदार्थानां नियमितांशानां संकलनं च सुनिश्चितं कर्तुं उक्तम्।

मुख्यमन्त्री पदयात्रामार्गेषु धामक्षेत्रेषु च स्वच्छतां सर्वोच्चप्राथमिकतारूपेण स्थापयितुं बलं दत्त्वा पर्याप्तशौचालयव्यवस्थां तेषां नियमितस्वच्छतां च सुनिश्चितां कर्तुं निर्देशान् दत्तवान्। गम्भीररोगिणां कृते उदग्रविमानरोगिवाहनसेवायाः समन्वयार्थं राज्यस्तरे एकस्य नोडलअधिकाऱिणः नियुक्तिं तथा केदारनाथपदयात्रामार्गे अतिरिक्तशेडस्थापनस्य अपि निर्देशाः दत्ताः।

संगोष्ठ्यां मंडलीयमन्त्री सतपाल महाराजो, विधायकः अनिल नौटियालो, राज्यआपदाप्रबन्धनपरामर्शसमितेः उपाध्यक्षः विनय कुमार रोहिला, उत्तराखण्ड अवस्थापनाअनुश्रवणपरिषदः उपाध्यक्षः विश्वास डाबर, मुख्यसचिवः आनंद बर्द्धन, प्रमुखसचिवः आर.के. सुधांशु, सचिवः शैलेश बगोली, डॉ. पंकज कुमार पाण्डेय, विनय शंकर पाण्डेय, रणवीर सिंह चौहान, विनोद कुमार सुमन, आईजी गढ़वाल राजीव स्वरूप, अपरसचिवः बंशीधर तिवारी तथा वर्चुअलमाध्यमेन विधायकौ सुरेश चौहान, आशा नौटियाल, बदरी-केदारमन्दिरसमितेः अध्यक्षः हेमंत द्विवेदी, आयुक्तः गढ़वाल आनंद स्वरूप तथा सम्बद्धाः जिलाधिकारिणः आरक्ष्यधीक्षकाः च उपस्थिताः आसन्।-----------------

Hindusthan Samachar / Dheeraj Maithani