Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 02 जूनमासः (हि.स.)।
सर्वकारीयः डिजिटलप्रसारणमञ्चः वेव्स ओटीटी इत्यस्य मञ्चः मङ्गलवासरे महतीम् उपलब्धिं प्राप्तवान् यत् तेन एककोटिपञ्जीकृतोपयोक्तृणाम् अङ्कः अतिक्रान्तः। अयं मञ्चः प्रसारभारत्या नवम्बर २०२४ मासे प्रारब्धः आसीत्।
वेव्स ओटीटी मञ्चे चतुर्विंशतिसहस्राधिकाः कार्यक्रमाः, शतचत्वारिंशदधिकाः प्रत्यक्षदूरदर्शनवाहिन्यः तथा द्विशताधिकाः रेडियोसेवाः उपलब्धाः सन्ति। एतदतिरिक्तं शिक्षा समाचाराः संस्कृतिः धार्मिककार्यक्रमाः तथा प्रसारभारत्याः प्राचीनसंग्रहाः अपि दर्शकेभ्यः उपलब्धाः सन्ति।
अयं मञ्चः अधुना शतत्रिंशदधिकेषु देशेषु स्वपहुंचं स्थापितवान्। अस्याः उपलब्धेः विषये प्रसारभारत्या उक्तं यत् एषा सफलता डिजिटलयुगे डिजिटलसार्वजनिकसेवामाध्यमस्य वर्धमानमहत्त्वं प्रदर्शयति तथा दूरदर्शन रेडियो आनडिमाण्डविषयवस्तु शिक्षा संस्कृतिः तथा विरासतायाः कृते एकस्यैव मञ्चस्य निर्माणपरिकल्पनां पुष्णाति।
विषयवस्तुनः निरन्तरविस्तारेण रणनीतिकडिजिटलसहभागिताभिः उपकरणानां व्यापकउपलब्ध्या तथा श्रेष्ठोपयोक्तृअनुभवेन अनेन मञ्चेन निरन्तरवृद्धिः अभिलेखिता। भक्तिमयप्रत्यक्षप्रसारणम् शैक्षिकविषयवस्तु डिजिटलप्रकाशनम् अभिलेखीयसंग्रहाः तथा प्रत्यक्षकार्यक्रमावरणम् इत्यादयः नवीनसुविधाः दर्शकानां सहभागितां अधिकं सुदृढीकृतवन्त्यः।
प्रसारभारत्याः अनुसारं वर्धमानलोकप्रियतायाः मध्ये अधुना लक्ष्यं मार्च २०२७ पर्यन्तं द्विकोटिपञ्जीकृतोपयोक्तृसंख्यां प्राप्तुम् अस्ति। वेव्स ओटीटी भारतस्य अतित्वरितवर्धमानानां सार्वजनिकडिजिटलप्रसारणमञ्चानां मध्ये एकत्वेन परिगण्यते।
----------
Hindusthan Samachar / Dheeraj Maithani