विधायकः 500 नागा-साधुभिः सह कामाख्या-मन्दिरं यावत् पदयात्रां कृतवान्
गुवाहाटीनगरम्, 20 जूनमासः (हि.स.)। अम्बुबासी-मेलापकस्य अवसरे शनिवासरे प्रातः 9:30 वादने प्रायः 500 नागा-साधुभिः सह मध्य-गुवाहाटीनगरस्य विधायकः विजय-गुप्तः कामाख्या-गेट-नर्सरीतः कामाख्या-मन्दिर-परिसरं यावत् पदयात्रां कृतवान्। एषा धार्मिक-पदयात्रा श
नागा साधुओं के साथ कामाख्या मंदिर तक पदयात्रा में शामिल विधायक विजय गुप्ता की तस्वीर।


गुवाहाटीनगरम्, 20 जूनमासः (हि.स.)। अम्बुबासी-मेलापकस्य अवसरे शनिवासरे प्रातः 9:30 वादने प्रायः 500 नागा-साधुभिः सह मध्य-गुवाहाटीनगरस्य विधायकः विजय-गुप्तः कामाख्या-गेट-नर्सरीतः कामाख्या-मन्दिर-परिसरं यावत् पदयात्रां कृतवान्।

एषा धार्मिक-पदयात्रा श्रद्धा-आस्था-पूर्णे वातावरणे आयोजिता आसीत्, यस्यां बहुसङ्ख्याकाः साधु-सन्ताः सम्मिलिताः अभवन्। पदयात्रा कामाख्या-गेटतः प्रारभ्य मन्दिर-परिसरं यावत् प्राप्ता।

विधायकः विजय-गुप्तः अस्याः पदयात्रायाः समये नागा-साधूनां सेवां कृत्वा तैः सह सहभागं कृतवान्।

Hindusthan Samachar / Divya Ranjan