राष्ट्रपतये मुख्यमंत्री अददाज्जन्मदिवसस्य शुभकामनाः
गुवाहाटी, 20 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा महोदयः राष्ट्रपतये द्रोपदी मुर्मोः जन्मदिवसस्य शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री स्वस्य सामाजिकमाध्यमस्य आधिकारिकहस्तात् प्रकाशिते सन्देशे उक्तवान् यत् राष्ट्रस्य प्रथम-न
असम के मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा प्रेषित तस्वीर।


गुवाहाटी, 20 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा महोदयः राष्ट्रपतये द्रोपदी मुर्मोः जन्मदिवसस्य शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री स्वस्य सामाजिकमाध्यमस्य आधिकारिकहस्तात् प्रकाशिते सन्देशे उक्तवान् यत् राष्ट्रस्य प्रथम-नागरिका इति रूपेण राष्ट्रपतेः द्रौपदीमुर्मू-महोदयायाः जीवनं कठिनपरिश्रमस्य लग्नतायाश्च अनुपमम् उदाहरणम् अस्ति। तासां सरलता, सम्मानजनकं नेतृत्वम्, सामाजिकन्यायस्य प्रति अचलप्रतिबद्धता तथा च समाजस्य वञ्चितोपेक्षितवर्गाणां कल्याणाय हृदयपूर्वकः प्रयासः कोटिशः भारतीयान् प्रेरितवान् अस्ति।

तासां दूरदर्शिना मार्गदर्शनेन आशीर्वादेन च अस्माकं राष्ट्रं अधिकां प्रगतिं समृद्धिं गौरवं च प्राप्नुयात्। अहं मातुःकामाख्यायाः तथा च महापुरुषस्य श्रीमंतगुरोः चरणयोः तासां दीर्घायुषे, स्वस्थाय, मङ्गलमयाय च जीवनाय प्रार्थनां करोमि।

---------------

Hindusthan Samachar / Dheeraj Maithani