भोपालनगरे दीर्घतडागात् टीटी-नगरपर्यन्तं योगस्य सन्देशः प्रतिध्वनितः, सहस्रशः युवभि: फिट-इण्डिया-सङ्कल्पः गृहीतः
भोपालनगरम्, 20 जूनमासः (हि.स.)। अन्ताराष्ट्रिय-योगदिवसात् एकदिनपूर्वं शनिवासरे प्रातः राजधानी भोपालनगरं पूर्णतया योगमयम् जातम्। दीर्घतडागस्य बोट-क्लबतः टीटी-नगर-स्टेडियमपर्यन्तं आयोजितेषु विविधेषु कार्यक्रमेषु सहस्रशः यूनां, क्रीडकानां तथा नागरिकाण
भोपाल में बड़ा तालाब से टीटी नगर तक गूंजा योग का संदेश


भोपाल में बड़ा तालाब से टीटी नगर तक गूंजा योग का संदेश


भोपालनगरम्, 20 जूनमासः (हि.स.)। अन्ताराष्ट्रिय-योगदिवसात् एकदिनपूर्वं शनिवासरे प्रातः राजधानी भोपालनगरं पूर्णतया योगमयम् जातम्। दीर्घतडागस्य बोट-क्लबतः टीटी-नगर-स्टेडियमपर्यन्तं आयोजितेषु विविधेषु कार्यक्रमेषु सहस्रशः यूनां, क्रीडकानां तथा नागरिकाणां उत्साहपूर्वकं सहभागेन सह स्वस्थ-सन्तुलित-जीवनस्य सन्देशः प्रदत्तः। योगविषये यूनां वर्धमाना जागरूकता सहभागिता च कार्यक्रमं विशेषं कृतवती।

टीटी-नगर-स्टेडियममध्ये आयोजिते मुख्यकार्यक्रमे केन्द्रीय-रक्षाराज्यमन्त्री संजय-सेठः तथा राज्यस्य सहकारिता-क्रीडा-युवा-कल्याणमन्त्री विश्वास-सारङ्गः सहस्रशः प्रतिभागिभिः सह सामूहिक-योगाभ्यासं कृतवन्तौ। प्रातःकालादेव स्टेडियममध्ये यूनां, क्रीडकाणां सामान्यनागरिकाणां च उत्साहः द्रष्टुं योग्यम् आसीत्। योगसत्रकाले सम्पूर्णः परिसरः अनुशासनेन, सकारात्मक-ऊर्जया च उत्साहेन च आप्लावितं दृश्यम् आसीत्।

अस्मिन् अवसरे केन्द्रीय-रक्षाराज्यमन्त्री संजय-सेठः अवदत् यत् योगः केवलं शारीरिकव्यायामः न, अपि तु स्वस्थ-सन्तुलित-सकारात्मक-जीवनशैल्याः आधारः अस्ति। नियमितयोगेन शरीरं स्वस्थं भवति, मानसिक-शान्तिः आत्मिक-सन्तुलनं च लभ्यते। सः यून: योगं स्व-दैनिक-चर्यायाः अङ्गं कर्तुं अपि आह्वानं कृतवान्।

दीर्घतडाग-तटे योगस्य संगमः

मुख्यकार्यक्रमानन्तरं मन्त्री विश्वास-सारङ्गः दीर्घतडाग-स्थिते बोट-क्लबमध्ये आयोजिते योगसत्रे अपि सम्मिलितः अभवत्। प्राकृतिकपर्यावरणे मनोहरदृश्ये च सहस्रशः यूनां सामूहिक-योगाभ्यासेन सह फिट-एवं-स्वस्थ-जीवनस्य संकल्पः गृहीतः। तालाबतटे योगं कुर्वतां यूनां दृश्यं आकर्षणस्य केन्द्रं जातम्, सम्पूर्णे क्षेत्रे स्वास्थ्य-जागरूकता-सन्देशः प्रतिध्वनितः अभवत्।

योगः वैश्विक-मान्यतां प्राप्तवान्

मन्त्री विश्वास-सारङ्गः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी-प्रयत्नैः भारतस्य प्राचीन-योगपरम्परा वैश्विकां मान्यतां प्राप्तवती। अद्य विश्वस्य 190 अधिकेषु देशेषु योगः स्वीकृतः अस्ति, तथा अन्ताराष्ट्रिय-योगदिवसे कोटिशः जनाः सामूहिकरूपेण योगाभ्यासं कुर्वन्ति। एषः भारतीयसंस्कृतेः ज्ञानपरम्परायाः च वैश्विकस्वीकारस्य प्रमाणम् अस्ति। सः उक्तवान् यत् योगः स्वस्थशरीरस्य, शान्तमनसः, सशक्तव्यक्तित्वस्य च निर्माणे अत्यन्तं प्रभावात्मक: उपायः अस्ति। एतत् केवलं रोगनिवारणस्य साधनं न, अपि तु उत्तमजीवनजीवनकला अपि शिक्षयति।

यूनां फिट-इण्डिया-सन्देशः

कार्यक्रमेषु यूनां उल्लेखनीय-सहभागितया इदं सिद्धं जातं यत् नववंश: स्वास्थ्य-फिटनेस-मानसिक-सन्तुलनविषये अधिकं सजग: अभवत्। सामूहिक-योगाभ्यासद्वारा यूनां स्वस्थभारतस्य तथा फिट-इण्डिया-संकल्पस्य सुदृढीकरणं कृतम्। अन्ताराष्ट्रिय-योगदिवसपूर्वसन्ध्यायां आयोजितैः एतैः कार्यक्रमैः राजधानी योगमय-वातावरणेन आलोकिता अभवत् तथा स्वस्थ-जागरूक-सशक्तसमाज-निर्माणदिशि नवऊर्जा प्रवाहिता।

Hindusthan Samachar / Divya Ranjan