मुख्यमंत्रिणस्सायस्य अध्यक्षतायां मंत्रिमंडलीयोपवेशनं 23 जून दिनांके
रायपुरम्, 20 जूनमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां त्रयोविंशतितमजूनदिनाङ्के प्रातः एकादशवादने त्रिंशन्मिनटनसमये राज्यमन्त्रिपरिषदः मन्त्रिमण्डलस्य च उपवेशनं आयोज्यते। एतत् महत्त्वपूर्णम् उपवेशनं नवारायपुरअटलनगरस्थिते मन्त्राल
मुख्यमंत्री साय की अध्यक्षता में कैबिनेट की बैठक,फाइल फोटो


रायपुरम्, 20 जूनमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां त्रयोविंशतितमजूनदिनाङ्के प्रातः एकादशवादने त्रिंशन्मिनटनसमये राज्यमन्त्रिपरिषदः मन्त्रिमण्डलस्य च उपवेशनं आयोज्यते। एतत् महत्त्वपूर्णम् उपवेशनं नवारायपुरअटलनगरस्थिते मन्त्रालये महानदीभवने सम्पन्नं भविष्यति। अस्य उपवेशनस्य सन्दर्भे प्रशासनिकस्तरे सज्जताः तीव्रतया प्रवर्तन्ते।

उपवेशने वर्षाकालस्य विलम्बं दृष्ट्वा खरीफऋतुसम्बद्धानां सज्जतानां विस्तृता समीक्षा क्रियिष्यते। धानसहितानां अन्यफसलानां वपनस्थितेः, कृषकेभ्यः खादबीजानां उपलब्धेः तथा वितरणव्यवस्थायाः विषये विशेषचर्चायाः सम्भावना वर्तते।

एतदतिरिक्तं त्रयोदशतमजुलाईदिनाङ्कात् प्रारभ्यमाणस्य विधानसभायाः वर्षाकालीनसत्रस्य सज्जताविषये अपि मन्त्रिमण्डलं विमर्शं करिष्यति। उपवेशने अनुकम्पानियुक्तिसम्बद्धप्रस्तावानां संशोधितनियमानां च अनुमोदनं भवितुम् अर्हति। अपरं शासकीयाधिकारिणां कर्मचारिणां च सामूहिकस्थानान्तरणार्थं नवीनस्थानान्तरणनीतेः उपरि अपि मन्त्रिमण्डलस्य अनुमोदनं भविष्यतीति सम्भावना व्यक्त्यते।

Hindusthan Samachar / Dheeraj Maithani