Enter your Email Address to subscribe to our newsletters

-विकास कार्येषु योग दिवस कार्यक्रमे सम्मेलिष्यति
झांसी, 20 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य २० तथा २१ जूनदिनाङ्कयोः झांसीनगरस्य प्रवासः प्रस्तावितः अस्ति। मुख्यमन्त्री स्वस्य द्विदिवसीयप्रवासकाले विकासकार्याणां समीक्षा, प्रधानमन्त्रीकिसानसम्माननिधिकार्यक्रमे सहभागिता, विधिव्यवस्थासम्बद्धोपवेशनं तथा अन्ताराष्ट्रिययोगदिवसस्य मुख्यकार्यक्रमे सहभागित्वं करिष्यति।
प्रकाशिते प्रोटोकॉले निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य २० जूनदिनाङ्के अपराह्णे द्विवादनोत्तरार्धत्रिंशन्मिनटसमये ललितपुरात् हेलिकॉप्टरयानद्वारा झांसीपुलिसलाइनं प्राप्स्यति। ततः सः यानेन द्विवादनोत्तरपञ्चत्रिंशन्मिनटसमये दीनदयालउपाध्यायसभागारे आयोजिते विकसितभारतसङ्कल्पकार्यक्रमे सहभागित्वं करिष्यति। तत्र सः प्रायः एकघण्टापर्यन्तम् उपस्थितः भविष्यति।
तदनन्तरं मुख्यमन्त्री त्रिवादनोत्तरचत्वारिंशन्मिनटसमये मण्डलायुक्तसभागारं गत्वा प्रधानमन्त्रीकिसानसम्माननिधिवितरणकार्यक्रमे सहभागित्वं करिष्यति। अयं कार्यक्रमः सायं चतुर्वादनोत्तरत्रिंशन्मिनटसमयपर्यन्तं चलिष्यति। अनन्तरं मुख्यमन्त्री झांसीमण्डलस्य जनपदेषु लोकनिर्माणविभागस्य पुरातनकार्याणां समीक्षां तथा नूतनविकासकार्याणां कार्ययोजनाविषये अधिकारिभिः सह उपवेशनं करिष्यति। एषा समीक्षासभा सायं चतुर्वादनोत्तरत्रिंशन्मिनटसमयात् पञ्चवादनोत्तरत्रिंशन्मिनटसमयपर्यन्तं प्रस्ताविता अस्ति।
सायं पञ्चवादनोत्तरपञ्चचत्वारिंशन्मिनटसमयात् षड्वादनोत्तरत्रिंशन्मिनटसमयपर्यन्तं मुख्यमन्त्री जनपदस्य विकासकार्याणां तथा विधिव्यवस्थायाः समीक्षां करिष्यति। उपवेशनानन्तरं सः मण्डलायुक्तसभागारात् सर्किटहाउसगमनाय प्रस्थितः भविष्यति। सायं षड्वादनोत्तरपञ्चत्रिंशन्मिनटसमये सर्किटहाउसं प्राप्य नवीनभवनस्य लोकार्पणं करिष्यति। ततः परं तस्य समयः रात्रिविश्रामार्थं सुरक्षितः भविष्यति।
२१ जूनदिनाङ्के मुख्यमन्त्री प्रातः पञ्चवादनोत्तरपञ्चचत्वारिंशन्मिनटसमये सर्किटहाउसात् झांसीदुर्गप्राङ्गणाय प्रस्थितः भविष्यति, यत्र सः प्रातः षड्वादनात् अष्टवादनपर्यन्तम् आयोजिते अन्ताराष्ट्रिययोगदिवसकार्यक्रमे सहभागित्वं करिष्यति। योगकार्यक्रमानन्तरं सः सर्किटहाउसं प्रत्यागत्य जलपानं करिष्यति। तदनन्तरं प्रातः नववादनोत्तरपञ्चचत्वारिंशन्मिनटसमये सर्किटहाउसात् पुलिसलाइनहेलिपैडगमनाय प्रस्थितः भविष्यति तथा प्रातः दशवादने हेलिकॉप्टरयानद्वारा महोबानगराय प्रस्थानं करिष्यति।
मुख्यमन्त्रिणः प्रस्तावितप्रवासस्य सन्दर्भे प्रशासनिकसज्जताः पूर्णतया सम्पन्नाः सन्ति। विविधकार्यक्रमस्थलेषु सुरक्षाव्यवस्था सुदृढा कृता अस्ति तथा अधिकारिभ्यः आवश्यकनिर्देशाः प्रदत्ताः सन्ति। सहैव महानगरस्य यातायातव्यवस्थायां मार्गपरिवर्तनव्यवस्था अपि प्रवर्तिता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani