इतिहासस्य पृष्ठेषु २१ जूनः अंताराष्ट्रिय योग दिवसस्य शुभारंभः
अंताराष्ट्रिययोगदिवसः प्रतिवर्षं 21 जून दिनांके समाचरितः। एषः दिवसः उत्तरगोलार्धे वर्षस्य दीर्घतमः दिवसः भवति। ११ दिसम्बर २०१४ दिनाङ्के संयुक्तराष्ट्रसंघे भारतस्य स्थायिप्रतिनिधिना अन्तरराष्ट्रीययोगदिवसस्य सङ्कल्पस्य प्रारूपं प्रस्तुतम्। अस्य प्
अंतरराष्ट्रीय योग दिवस


अंताराष्ट्रिययोगदिवसः प्रतिवर्षं 21 जून दिनांके समाचरितः।

एषः दिवसः उत्तरगोलार्धे वर्षस्य दीर्घतमः दिवसः भवति।

११ दिसम्बर २०१४ दिनाङ्के संयुक्तराष्ट्रसंघे भारतस्य स्थायिप्रतिनिधिना अन्तरराष्ट्रीययोगदिवसस्य सङ्कल्पस्य प्रारूपं प्रस्तुतम्। अस्य प्रारूपस्य व्यापकसमर्थनं प्राप्तम्, यस्य अन्तर्गतं १७७ राष्ट्राणि अस्य प्रस्तावस्य प्रस्तोक्तारः अभवन्। एषा संख्या संयुक्तराष्ट्रमहासभायाः इतिहासे अद्यावधि कस्यापि सङ्कल्पस्य सर्वाधिकप्रस्तोक्तृसंख्या अस्ति। संयुक्तराष्ट्रसंघस्य सदस्यराष्ट्रैः २१ जून दिनाङ्के अन्तरराष्ट्रीययोगदिवसस्य आयोजनस्य प्रस्तावः अनुमोदितः। भारतस्य अयं प्रस्तावः नवतिदिनानाम् अन्तरे पूर्णबहुमतेन पारितः, यत् संयुक्तराष्ट्रसंघे कस्यापि प्रस्तावितदिवसस्य अनुमोदनार्थं न्यूनतमकालः अस्ति।

२७ सितम्बर २०१४ दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी संयुक्तराष्ट्रमहासभायां स्वभाषणे विश्वसमुदायं अन्तरराष्ट्रीययोगदिवसस्य स्वीकृत्यर्थम् आह्वानं कृतवान्। तेन उक्तम् आसीत् यत् योगः भारतस्य प्राचीनपरम्परायाः अमूल्योपहारः अस्ति। सः मनसः शरीरस्य च एकतायाः प्रतीकः, मनुष्यस्य प्रकृतेः च मध्ये सामञ्जस्यस्य आधारः अस्ति। योगः विचारं, संयमं, परिपूर्तिं च प्रददाति तथा स्वास्थ्यस्य कल्याणस्य च समग्रदृष्टिकोणं ददाति। अयं केवलं व्यायाममात्रस्य विषयः नास्ति, अपितु स्वस्मिन्, विश्वे, प्रकृतौ च एकत्वभावस्य अन्वेषणस्य विषयः अस्ति। अस्माकं परिवर्तमानजीवनशैल्यां योगः चेतनारूपेण भूत्वा जलवायुपरिवर्तनस्य सामना कर्तुं साहाय्यं कर्तुं शक्नोति।

अन्यानि महत्त्वपूर्णानि घटनाचक्राणि

१९९९ कोसोवोलिबरेशनआर्मी तथा कोसोवोशान्तिसैनिकबलयोः मध्ये विसैन्यीकरणसहमतः सम्पन्नः।

२००२ यूरोपियनयूनियनसंस्थायाः पञ्चदश राष्ट्राध्यक्षानां सेविलिया स्पेन नगरे उपवेशनं प्रारब्धम्।

२००४ चीनदेशेन भारतपाकिस्तानसंवादस्य समर्थनं कृतम्।

२००५ डोनाल्डत्याङ्ग हाङ्गकाङ्गस्य नूतनप्रशासकः अभवत्।

२००८ फिलिपीन्सदेशे विनाशकारी फेंगसेन तूफानस्य प्रभावेण शताधिकानां जनानां मृत्युः अभवत्।

जन्म

१९८७ विनीतासोरेन माउण्टएवरेस्टशिखरं विजेतुं सफला प्रथमभारतीयआदिवासीयुवती।

१९६७ यिङ्गलकशिनावात्रा थाईलैण्डदेशस्य प्रथमा महिला प्रधानमन्त्री।

१९६० एसपीसिंहबघेल आग्रानगरात् भारतीयजनतापक्षस्य राजनीतिज्ञः।

१९३३ मुद्राराक्षसः भारतस्य प्रसिद्धः लेखकः, उपन्यासकारः, नाटककारः, आलोचकः तथा व्यङ्ग्यकारः आसीत्।

१९२७ बीजीवर्गीज रेमनमैग्सेसेपुरस्कारसम्मानितः वरिष्ठपत्रकारः।

१९१२ विष्णुप्रभाकरः प्रसिद्धः हिन्दीसाहित्यकारः, नाटककारः कथाकारश्च।

१८२६ लॉर्डडफरिन् लॉर्डरिपनस्य अनन्तरं भारतस्य वायसरायः अभवत्।

निधन

२०२० जीतसिंहनेगी उत्तराखण्डस्य प्रथमः लोकगायकः आसीत्।

२०२० राजिन्द्रगोयलः भारतीयक्रिकेटक्रीडकः आसीत्।

१९७० सुकर्णो इण्डोनेशियादेशस्य प्रथमः राष्ट्रपतिः आसीत्।

१९४० केशवबलिरामहेडगेवारः राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः तथा स्वतन्त्रतासङ्ग्रामसेनानी आसीत्।

महत्त्वपूर्णाः अवसराः तथा उत्सवाः

विश्वसंगीतदिवसः

अन्तरराष्ट्रीययोगदिवसः॥

---------------

Hindusthan Samachar / Dheeraj Maithani