केंद्रीय गृह सचिवश्श्रीनगरे पुलिस मुख्यालये सुरक्षासमीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षतां करिष्यति
श्रीनगरम्, 20 जूनमासः (हि.स.)। केन्द्रीयगृहसचिवः गोविन्दमोहनः श्रीनगरं प्राप्तवान्। केन्द्रीयगृहसचिवः श्रीनगरस्थे पुलिसमुख्यालये सुरक्षासमीक्षार्थम् उच्चस्तरीयोपवेशनस्य अध्यक्षतां करिष्यति। अस्मिन् उपवेशने आगामिन्याः श्रीअमरनाथजीयात्रायाः व्यापकव्
केंद्रीय गृह सचिवश्श्रीनगरे पुलिस मुख्यालये सुरक्षासमीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षतां करिष्यति


श्रीनगरम्, 20 जूनमासः (हि.स.)।

केन्द्रीयगृहसचिवः गोविन्दमोहनः श्रीनगरं प्राप्तवान्। केन्द्रीयगृहसचिवः श्रीनगरस्थे पुलिसमुख्यालये सुरक्षासमीक्षार्थम् उच्चस्तरीयोपवेशनस्य अध्यक्षतां करिष्यति। अस्मिन् उपवेशने आगामिन्याः श्रीअमरनाथजीयात्रायाः व्यापकव्यवस्थानां तथा जम्मूकश्मीरप्रदेशस्य समग्रसुरक्षास्थितेः विषये विशेषध्यानं प्रदास्यते।

गोविन्दमोहनः चर्चायाः अनन्तरं सायं पञ्चवादनपर्यन्तं नवींदिल्लीं प्रत्यागमिष्यति। अस्मिन् उपवेशने इण्टेलिजेन्सब्यूरो संस्थायाः निदेशकः, नॉर्दर्नकमाण्डस्य जनरलऑफिसरकमाण्डिङ्ग, जम्मूकश्मीरप्रदेशस्य पुलिसमहानिदेशकः, पञ्चदश तथा षोडश कोर्प्सयोः जीओसी अधिकारी, सीआरपीएफ संस्थायाः महानिदेशकः, सशस्त्रसीमाबलस्य तथा बॉर्डरसिक्योरिटीफोर्स संस्थायाः वरिष्ठाधिकारीणः, अन्येषां अर्धसैनिकबलानां वरिष्ठाधिकारीणश्च सहभागित्वं करिष्यन्ति।

अस्मिन् उच्चस्तरीयोपवेशने बहुस्तरीयसुरक्षाजालस्य, गुप्तसूचनासमन्वयस्य, बलनियोजनस्य, उन्नतप्रौद्योगिक्याः उपयोगस्य तथा रसदसम्बद्धसज्जतानां समीक्षा क्रियिष्यते। अस्मिन् वर्षे श्रीअमरनाथयात्रा तृतीयजुलाई २०२६ दिनाङ्के प्रारभ्य अष्टाविंशतितमागस्त २०२६ दिनाङ्के समाप्तिं गमिष्यति।

सुरक्षाव्यवस्थासम्बद्धैः वरिष्ठाधिकारिभिः उक्तं यत् चर्चायाः मुख्यकेन्द्रबिन्दुः पारम्परिकयोः पहलगाम तथा बालटाल मार्गयोः सह आधारशिविरयोः नुनवान तथा बालटाल इत्येतयोः शून्यसहिष्णुतायुक्तसुरक्षाव्यवस्थायाः सुनिश्चितीकरणं भविष्यति। समीक्ष्यमाणेषु प्रमुखविषयेषु क्षेत्रप्रभुत्वस्थापनम्, मार्गशुद्धीकरणम्, सामरिकदृष्ट्या महत्त्वपूर्णोच्चस्थानां सुरक्षा, तीर्थयात्रिकाणां परीक्षणपञ्जीकरणव्यवस्था तथा वास्तविकसमयप्रत्युत्तरक्षमताः समाविष्टाः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani