Enter your Email Address to subscribe to our newsletters

जयपुरम्, 20 जूनमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा अन्ताराष्ट्रिययोगदिवसस्य एकविंशतितमजूनदिनाङ्के आयोज्यमानानां कार्यक्रमाणां श्रृङ्खलायाः अन्तर्गतं शनिवासरे मुख्यमन्त्रिनिवासे योगाभ्यासं कृत्वा स्वस्थजीवनस्य सन्देशं प्रदत्तवान्। अस्मिन् अवसरे महिला पुलिस तथा कालिक पेट्रोलिङ्ग यूनिटस्य कार्मिकाः अपि योगाभ्यासे सहभागित्वं कृतवन्तः।
अस्मिन् अवसरे मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् योगः केवलं व्यायामः नास्ति, अपितु स्वस्थशरीरस्य, शान्तमनसः तथा सन्तुलितजीवनस्य आधारः अस्ति। नियमितयोगाभ्यासेन जनः शारीरिकरूपेण सुदृढः, मानसिकरूपेण सकारात्मकः तथा आत्मिकरूपेण ऊर्जावान् भवति।
मुख्यमन्त्री प्रदेशवासिनः प्रति आह्वानं कृत्वा उक्तवान् यत् अन्ताराष्ट्रिययोगदिवसस्य अवसरे प्रदेशव्यापिनि आयोज्यमानेषु योगकार्यक्रमेषु, येषु जिला, ब्लॉक, ग्रामपञ्चायत, शैक्षणिकसंस्थाः तथा आयुष्मानआरोग्यमन्दिराणि समाविष्टानि सन्ति, अधिकाधिकसंख्यया सहभागित्वं कृत्वा योगं स्वदिनचर्यायाः अङ्गं कुर्वन्तु तथा च स्वस्थजीवनस्य दिशि पदानि अग्रे नयन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani