Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, २० जूनमासः (हि.स.)। पूर्वाञ्चलस्य भूमौ निहितस्य आम्रस्य मधुरता, तस्य परम्परागत-प्रजातीनां विशिष्टा सुरभिः तथा वंशपरम्परया प्रवर्तमानां समृद्धाम् आम्रोत्पादन-सम्पदं संरक्षितुं भारतीय-सांस्कृतिक-निधेः गोरखपुर-अध्यायेन रविवासरे गोरखपुर-क्लब-इत्यस्य सभागारे चतुर्थः गोरखपुर-आम्र-महोत्सवः आयोज्यते। अयं महोत्सवः आम्र-प्रदर्शिनीसहितं पूर्वाञ्चलस्य कृषिपरम्परां, स्थानीय-स्वादं, जैव-विविधतां, गृहज्ञानं तथा सांस्कृतिक-सम्पदं संरक्षितुं महत्त्वपूर्णः प्रयासः अस्ति।
एषा सूचना शनिवासरे आयोजितायां पत्रकार-परिषद्यां महोत्सवस्य आयोजक-मण्डलस्य सदस्यैः अचिन्त्य-लहरी, डॉ. मुमताज-खान, प्रो.शिवशरण-दास:, महावीर-कन्दोई तथा नीरज-अस्थाना इत्येतैः प्रदत्ता।
आयोजकैः उक्तं यत् महोत्सवस्य सर्वाः सज्जताः तथा कार्यक्रमस्य रूपरेखा अन्तिमरूपेण सिद्धा क्रियते। तैः उक्तं यत् पूर्वाञ्चलप्रदेशः प्राचीनकालादेव आम्रोत्पादनस्य प्रमुखः प्रदेशः अस्ति। अत्र विद्यमानाः अनेकाः परम्परागताः आम्र-प्रजातयः स्वस्य स्वादेन, सुरभिणा, आकारेण तथा स्थानीय-वैशिष्ट्येन विशिष्टं स्थानं धारयन्ति। किन्तु कालक्रमेण व्यावसायिक-प्रजातीनां प्रभाववृद्ध्या एताः स्थानीयाः प्रजातयः शनैः शनैः लुप्तप्रायाः भवन्ति। एतासां संरक्षणाय, संवर्धनाय तथा तासां महत्त्वस्य विषये समाजे जनजागरूकतां जनयितुं वर्षे २०२३ तमे इण्टैक्-संस्थया अस्य महोत्सवस्य शुभारम्भः कृतः।
अस्य उपक्रमस्य आरम्भात् एव क्षेत्रीय-आम्रोत्पादकानां, उत्तरप्रदेश-उद्यान-विभागस्य, जीईएजी-संस्थायाः, महायोगी-गुरु-गोरक्षनाथ-कृषि-विज्ञान-केन्द्रस्य तथा दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य गृहविज्ञान-विभागस्य सहयोगः प्राप्तः। तस्यैव परम्परायाः अनुसरणेन अस्मिन् वर्षे चतुर्थः आम्र-महोत्सवः आयोज्यते।
आयोजकैः उक्तं यत् महोत्सवस्य उद्देश्यं स्थानीयाः आम्र-प्रजातयः केवलं स्मृतौ स्वादे वा न स्थापयित्वा ताः संरक्षणेन, उत्पादन-प्रक्रियया, प्रसंस्करणेन, विपणनेन तथा जनसहभागितया सह सम्बद्धाः कर्तुम् अस्ति। तेषां मते पूर्वाञ्चलस्य आम्र-प्रजातयः अस्य प्रदेशस्य परिचयस्य, परम्परायाः, स्वादस्य, कृषिज्ञानस्य, श्रमस्य तथा सांस्कृतिक-स्मृतेः जीवन्ती धरोहराः सन्ति। यदि एताः समये संरक्षिताः न भविष्यन्ति, तर्हि आगामि-पीढयः एतस्याः अमूल्यायाः प्राकृतिक-सांस्कृतिक-सम्पदः वञ्चिताः भविष्यन्ति।
आयोजकैः उक्तं यत् महोत्सवः द्वयोः सत्रयोः आयोज्यते। प्रथमं तान्त्रिक-सत्रं मध्याह्ने द्वादशवादनात् द्विवादनपर्यन्तं भविष्यति, यस्मिन् पूर्वोत्तर-उत्तरप्रदेशस्य परिप्रेक्ष्ये आम्रम् : विविधता तथा उत्पादनम् इति विषये परिचर्चा भविष्यति। अस्मिन् सत्रे पूर्वाञ्चलस्य प्रचलित-आम्र-प्रजातयः, तासां संरक्षणस्य आव्हानानि, उत्पादनस्य सम्भावनाः, उद्यानिकी-प्रविधयः, रोग-कीट-प्रबन्धनम्, गृह-उपयोगः, प्रसंस्करणम् तथा आम्रोत्पादकानां समस्याः इत्यादिषु गम्भीरा चर्चा भविष्यति।
तान्त्रिक-सत्रे आईसीएआर-रहमानखेड़ा-लखनऊ संस्थायाः प्रधान-वैज्ञानिकः डॉ.आशीष-यादवः आम्र-विविधता, वैज्ञानिक-उत्पादन-पद्धतिः तथा स्थानीय-प्रजातीनां संरक्षणम् इत्यादिषु विशेषज्ञ-व्याख्यानं दास्यति। गोरखपुरस्य जिला-उद्यान-अधिकारी पारसनाथः उद्यान-विभागस्य योजनाः, शासकीय-सहाय्यं, उद्यानिकी-विकासस्य सम्भावनाः तथा आम्रोत्पादकेभ्यः उपलब्धाः सुविधाः इत्यादिषु प्रकाशं क्षिप्स्यति। कृषि-विज्ञान-केन्द्रस्य वैज्ञानिकः डॉ. अजीत-कुमार-श्रीवास्तवः वैज्ञानिक-रीत्या आम्रोत्पादनम्, पादप-संरक्षणम्, रोग-कीट-प्रबन्धनम् तथा उत्पादन-वृद्धेः उपायान् विवक्ष्यति। दीनदयाल-उपाध्याय-गोरखपुर-विश्वविद्यालयस्य गृहविज्ञान-विभागस्य डॉ. अनुपमा-कौशिक: आम्रस्य पोषणीय-महत्त्वम्, घरेलु-उपयोगः, आम्राधारित-उत्पादाः तथा गृहेषु निर्मातुं शक्याः व्यञ्जन-प्रकारान् विषये उपयोगिनीं सूचनां प्रदास्यति।
डॉ. शिवशरण-दासः, नुशरत्-अब्बासी, शिवेन्द्र-विक्रम-सिंहः तथा तलत्-अजीजः आम्रोत्पादनम्, स्थानीय-प्रजातीनां संरक्षणम्, उद्यान-प्रबन्धनम्, विपणन-समस्याः तथा स्वानुभवान् सहभागीभ्यः कथयिष्यन्ति। एतेषां अनुभवीनाम् उत्पादकानां सहभागितया महोत्सवः व्यावहारिक-दृष्ट्या अधिकः फलदायकः भविष्यति तथा आम्रोत्पादकाः स्वसमस्यानां समाधानम् अवाप्स्यन्ति।
द्वितीयं सत्रं मध्याह्ने द्विवादनार्धात् आरभ्य भविष्यति। अस्मिन् सत्रे अस्य प्रदेशस्य विविधाः आम्र-प्रजातयः तथा आम्रनिर्मित-उत्पादानां प्रदर्शिनी आयोज्यते। प्रदर्शनीद्वारा जनसामान्याय एषा सूचना प्रदास्यते यत् स्थानीयाः आम्र-प्रजातयः अपि वर्तमानकाले प्रचलितानां व्यावसायिक-प्रजातीनामिव समानरूपेण महत्त्वपूर्णाः सन्ति। प्रदर्शने आगन्तारः आम्र-विविधतां, तेषां स्वादम्, उपयोगितां तथा घरेलु-उत्पादान् समीपतः ज्ञातुं द्रष्टुं च शक्नुवन्ति।
महोत्सवे आम्रनिर्मितानां स्वादिष्ट-व्यञ्जनानामपि विक्रयः भविष्यति। केचन प्रतिष्ठानानि तथा गृहिण्यः अपि स्वनिर्मितानि आम्र-व्यञ्जनानि प्रदर्शयिष्यन्ति विक्रयिष्यन्ति च। अनेन आम्रस्य घरेलु-उपयोगः प्रोत्साह्यते, आम्राधारित-लघु-उद्यमानां सम्भावनाः अपि वर्धिष्यन्ते। अस्मिन् अवसरे आम्र-व्यञ्जन-पाक-प्रतियोगिता अपि आयोज्यते, यस्मिन् परम्परागतानि नूतनानि च आम्र-व्यञ्जनानि प्रदर्शितानि भविष्यन्ति।
अयं महोत्सवः कृषकाणां, आम्रोत्पादकानां, विशेषज्ञानां, गृहिणीनां, विद्यार्थिनां तथा सम्पूर्ण-परिवारस्य कृते ज्ञानस्य, स्वादस्य, संवादस्य मनोरञ्जनस्य च उत्कृष्टः संगमः भविष्यति। बालकाः आम्र-विविधतायाः परिचयं प्राप्स्यन्ति, युवानः स्थानीय-कृषि-सम्पदः महत्त्वं ज्ञास्यन्ति, गृहिण्यः आम्राधारित-व्यञ्जनेषु नवीन-प्रयोगान् अवगमिष्यन्ति, आम्रोत्पादकाः विशेषज्ञैः सह प्रत्यक्षं संवादं कृत्वा स्वसमस्यानां समाधानं प्राप्स्यन्ति।
इण्टैक्-गोरखपुर-अध्यायस्य संयोजकः महावीर-कन्दोई शनिवासरे जनसामान्यं प्रति आह्वानम् अकरोत् यत् सर्वे अधिकाधिक-संख्यया गोरखपुर-क्लब-इत्यस्य सभागारम् आगत्य अस्मिन् महोत्सवे सहभागीभूय पूर्वाञ्चलस्य अमूल्यां आम्र-सम्पदं संरक्षितुं स्वयोगदानं ददतु। तेन उक्तं यत् स्थानीय-आम्र-प्रजातीनां संरक्षणं केवलं उत्पादकानां वा संस्थानां वा उत्तरदायित्वं नास्ति, अपितु सम्पूर्ण-समाजस्य सामूहिकं दायित्वम् अस्ति। महोत्सवे प्रवेशः सर्वेषां कृते निःशुल्कः भविष्यति।
Hindusthan Samachar / Divya Ranjan