Enter your Email Address to subscribe to our newsletters


नवदेहली, २० जूनमासः (हि.स.)। सार्वजनिक-क्षेत्रस्य गार्डन् रीच शिपबिल्डर्स एण्ड इञ्जीनियर्स लिमिटेड् इत्यस्मै ‘नवरत्न’-पदं प्रदत्तम्। वित्तमन्त्रालयस्य अधीनस्थेन सार्वजनिक-उद्यम-विभागेन जूनमासस्य १९ दिनाङ्के निर्गतज्ञापनेन निर्माणी एषा एतत् पदं प्रदत्तवती।
शनिवासरे निर्माणी अयं विषयः अंश-विपण्यै अवगतं कारितवती। सामाजिक-माध्यमे प्रकाशितसन्देशे निर्माणी उक्तवती यत् ‘नवरत्न’-पदस्य प्राप्तिः तस्याः अद्यावधिक-यात्रायाः महत्त्वपूर्णं सोपानम् अस्ति। एतत् सम्मानं निर्माण्याः सुदृढ-वित्तीय-प्रदर्शनस्य, परिचालन-दक्षतायाः तथा राष्ट्रिय-सुरक्षायां तस्याः महत्त्वपूर्ण-योगदानस्य मान्यता अस्ति। अनेन उन्नयनेन निर्माणी रणनीतिक-अवसराणां अन्वेषणे, रक्षा-निर्माण-क्षेत्रे आत्मनिर्भरता-वर्धने, वैश्विक-प्रतिस्पर्धायाः सुदृढीकरणे तथा २०४७ तमवर्षपर्यन्तं भारतदेश: प्रमुख-सामुद्रिक-शक्तिरूपेण स्थापयितुं स्वीयं योगदानं वर्धयितुं अधिकं समर्थ: भविष्यति।
निर्माण्या: अध्यक्षः तथा प्रबन्ध-निदेशकः, अवकाशप्राप्तः कमोडोरः पी. आर. हरिः अवदत् यत् सार्वजनिक-उद्यम-विभागेन शुक्रवासरे जीआरएसई इत्यस्मै निरन्तरं उत्कृष्ट-वित्तीय-भौतिक-प्रदर्शनस्य आधारेण एतत् पदं प्रदत्तम्। तेन उक्तं यत् ‘नवरत्न’-पदस्य प्राप्त्या सार्वजनिक-क्षेत्रस्य निर्माणीभ्य: अधिका वित्तीय-परिचालन-स्वायत्तता प्राप्यते।
कोलकाता-स्थितायाः अस्याः युद्धपोत-निर्माण-निर्माण्या: परिचालन-आयः वित्तीय-वर्षे २०२१–२२ मध्ये १,७५४ कोटि-रूप्यकाणि आसीत्, यत् वित्तीय-वर्षे २०२५–२६ मध्ये वर्धमानः ७,००२ कोटि-रूप्यकाणि अभवत्। तथैव निर्माण्या: शुद्ध-लाभः वित्तीय-वर्षे २०२१–२२ मध्ये १९० कोटि-रूप्यकाणि आसीत्, यः वित्तीय-वर्षे २०२५–२६ मध्ये वर्धमानः ७४८ कोटि-रूप्यकाणि अभवत्।
उल्लेखनीयं यत् सार्वजनिक-क्षेत्रस्य जीआरएसई निर्माणी वाणिज्यिक-जलयानान्यपि निर्माति। अस्मिन् वर्षे निर्माणी अष्ट युद्धपोतानां प्रदानं कृतवती, येषु मार्चमासस्य ३० दिनाङ्के २०२६ तमे वर्षे एकस्मिन्नेव दिने त्रयाणां युद्धपोतानां प्रदानं अपि समाविष्टम् अस्ति।
Hindusthan Samachar / Divya Ranjan