पश्चिमबङ्गदिवसे राज्यपालेन शुभाशंसाः प्रदत्ताः, बङ्गस्य सांस्कृतिकवैभवं प्रणमितम्
कोलकातानगरम्, २० जूनमासः (हि.स.)। पश्चिमबङ्गदिवसस्य अवसरे राज्यपालेन प्रदेशवासिभ्यः हार्दिक्यः शुभकामनाः प्रदत्ताः। तेन बङ्गप्रदेशस्य समृद्धां सांस्कृतिकीं, आध्यात्मिकीं तथा बौद्धिकीं परम्परां प्रणम्य उक्तं यत् बङ्गप्रदेशः भारतस्य सभ्यतायात्रायाः द
विधानसभा


कोलकातानगरम्, २० जूनमासः (हि.स.)। पश्चिमबङ्गदिवसस्य अवसरे राज्यपालेन प्रदेशवासिभ्यः हार्दिक्यः शुभकामनाः प्रदत्ताः। तेन बङ्गप्रदेशस्य समृद्धां सांस्कृतिकीं, आध्यात्मिकीं तथा बौद्धिकीं परम्परां प्रणम्य उक्तं यत् बङ्गप्रदेशः भारतस्य सभ्यतायात्रायाः दिशानिर्देशने ऐतिहासिकीं भूमिकां निर्वुढवान्।

स्वसन्देशे राज्यपालः अवदत् यत् पश्चिमबङ्गदिवसः केवलं राज्यस्य गठनस्य अवसरः नास्ति, अपितु तस्याः गौरवशालीन्याः परम्परायाः स्मरणदिवसः अस्ति, या भारतस्य राष्ट्रियजीवनम् अत्यन्तं प्रभावितवती। तेन स्वामी-विवेकानन्दस्य राष्ट्रियजागरणस्य आह्वानम्, ऋषेः बङ्किमचन्द्र-चट्टोपाध्यायस्य अमरगीतं ‘वन्दे मातरम्’ तथा डॉ.श्यामाप्रसाद-मुखर्जी-महोदयस्य नेतृत्वस्य विशेषतः उल्लेखः कृतः।

राज्यपालः उक्तवान् यत् डॉ.मुखर्जी-महोदयस्य दृढप्रयत्नैः पश्चिमबङ्गप्रदेशः भारतस्य अभिन्नः भागः स्थितः। तेन पश्चिमबङ्गस्य गठनकाले साहसं, संघर्षं तथा बलिदानं कृतवन्तः जनाः श्रद्धया स्मृताः।

सः अवदत् यत् राज्यं स्वमहापुरुषाणां प्रेरणया अग्रे गन्तव्यम्। एते महापुरुषाः समाजं जागरितवन्तः, वंशाः प्रेरितवन्तः तथा भारतस्य आध्यात्मिकं, सांस्कृतिकं, बौद्धिकं राष्ट्रियं च जीवनं समृद्धवन्तः।

राज्यपालः पुनरुक्तवान् यत् पश्चिमबङ्गेन स्वस्य ऐतिहासिकी भूमिका पुनः प्रतिष्ठापनीया तथा ‘विकसित-भारतम्-२०४७’ इति लक्ष्यस्य प्राप्तौ अग्रणी भूमिका निर्वहणीया। तेन विश्वासः व्यक्तः यत् बङ्गप्रदेशस्य समृद्धा परम्परा वैचारिकी शक्तिश्च देशस्य विकासे महत्त्वपूर्णं योगदानं दास्यतः।

स्वसन्देशस्य अन्ते राज्यपालः ‘वन्दे मातरम्’ इति घोषेण सह पश्चिमबङ्गदिवसस्य शुभाशंसाः प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan