पारंपरिकसस्यानां महत्वे एक दिवसीय प्रशिक्षणं जागरूकता शिविरं च आयोजितम्
मंडी, 20 जूनमासः (हि.स.)। औद्यानिकीवानिकीमहाविद्यालयेन थुनागस्थितेन गोहरगुडाहरीसंस्थानेन ग्रामपञ्चायत् चच्योटगोहरक्षेत्रे पारम्परिकसस्यानां महत्त्वं कृषिवानिकीप्रणाल्यां तेषामुपयोगश्च इति विषये एकदिवसीयः प्रशिक्षणजागरूकताशिविरः आयोजितः। प्रशिक्ष
शिविर के दौरान पारंपरिक फसलों की जानकारी देते हुए।


मंडी, 20 जूनमासः (हि.स.)।

औद्यानिकीवानिकीमहाविद्यालयेन थुनागस्थितेन गोहरगुडाहरीसंस्थानेन ग्रामपञ्चायत् चच्योटगोहरक्षेत्रे पारम्परिकसस्यानां महत्त्वं कृषिवानिकीप्रणाल्यां तेषामुपयोगश्च इति विषये एकदिवसीयः प्रशिक्षणजागरूकताशिविरः आयोजितः।

प्रशिक्षणसमन्वयिके नेहा ठाकुर तथा गरिमा महोदये कृषकेभ्यः परामर्शं दत्तवत्यौ यत् ते स्वाभिः अन्याभिः नगदसस्यैः सह रामदानं बिथु इत्यादयः पारम्परिकसस्याः अपि उत्पादयेयुः, येन तेषाम् अतिरिक्तमायः भवेत् तथा च ते तस्य पूर्णं लाभं प्राप्नुयुः।

शिविरे ग्रामपञ्चायतः चच्योटस्य त्रिंशत् कृषकेभ्यः रामदानबिथु तथा गेंदा इत्येतयोः गुणवत्तायुक्ता रोपणसामग्री अपि वितरिता।

अद्यतननिर्वाचिता पञ्चायत्प्रधाना लीला देवी एतस्याः पहलस्य प्रशंसाम् अकरोत् तथा च भविष्ये अपि महाविद्यालयेन सह मिलित्वा स्वपञ्चायतिक्षेत्रस्य कृषकाणां कृते एतादृशानां प्रशिक्षणजागरूकताकार्यक्रमाणाम् आयोजनार्थं पूर्णसहयोगस्य आश्वासनम् अददात्।

---------------

Hindusthan Samachar / Dheeraj Maithani