Enter your Email Address to subscribe to our newsletters

झाँसीनगरम्, 20 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रीयोगी-आदित्यनाथस्य 21 जूनदिने झाँसी-नगरम् आगमनस्य तथा किला-प्रांगणे आयोजितस्य अन्ताराष्ट्रिय-योगदिवस-कार्यक्रमस्य दृष्ट्या प्रशासनेन आरक्षी-विभागेन च विशेषा वाहन-पार्किङ्ग-व्यवस्था निर्धारिता अस्ति। कार्यक्रमे सहभागिनां जनप्रतिनिधीनां, अधिकारिणां, सञ्चारमाध्यमकर्मिणां तथा सामान्यनागरिकाणां कृते पृथक्-पृथक् पार्किङ्ग-स्थलानि चिन्हितानि सन्ति।
प्रकाशित-व्यवस्थायाः अनुसारं एलवीएम-विद्यालय-परिसरे निर्मिता पार्किङ्ग-व्यवस्था (पी-1) प्रशासनिक-अधिकारिणां, आरक्षी-अधिकारिणां तथा सञ्चारमाध्यमकर्मिणां वाहनानां कृते सुरक्षिता भविष्यति। द फोर्ट-व्यू कैफे-समक्षं तथा गांधी-भवनस्य समीपे स्थितं रिक्त-स्थलं पार्किङ्ग (पी-2) रूपेण चिन्हितम् अस्ति, यत्र सांसदाः, विधायकाः तथा अन्ये जनप्रतिनिधयः वाहनानि स्थापयिष्यन्ति।
योग-कार्यक्रमे भागग्रहणार्थं आगच्छतां सामान्यनागरिकाणां कृते एसपीआई-इण्टर-विद्यालय-परिसरे पार्किङ्ग (पी-3) व्यवस्था कृता अस्ति। अपि च मुक्ताकाशी-मञ्च-पार्किङ्ग (पी-4) भारी-बसयानानां कृते निर्धारितम् अस्ति। बसयानैः आगच्छन्तः प्रतिभागिनः विपिन-रावत-प्रांगण-समीपे अवतीर्य पादाभ्यां योग-स्थलं किला-प्रांगणं गमिष्यन्ति।
झाँसी-आरक्षी-विभागेन पीआरओ-सेल-माध्यमेन सूचना प्रसारिता, नागरिकेभ्यः आह्वानं कृतं यत् ते निर्धारित-पार्किङ्ग-स्थलानाम् एव उपयोगं कुर्वन्तु तथा सुगम-यातायात-व्यवस्थायै, सुव्यवस्थित-कार्यक्रम-सञ्चालनाय च प्रशासनस्य सहयोगं कुर्वन्तु।
Hindusthan Samachar / Divya Ranjan