योगासने यशोवर्धन-अत्रिणा देशे विदेशे च हिमाचलस्य कीर्तिः प्रसारिता
धर्मशाला, २० जूनमासः (हि.स.)। योगासने उत्कृष्टं प्रदर्शनं कृत्वा सप्तदशवर्षीयः यशोवर्धन-अत्री देशे विदेशे च हिमाचलप्रदेशस्य नाम गौरवान्वितवान्। गत-नववर्षेभ्यः सः निरन्तराभ्यासेन परिश्रमेण च योगासने जनपदस्तरात् आरभ्य अन्ताराष्ट्रिय-स्तरपर्यन्तं विवि
योगा की मुद्रा में यशोवर्धन अत्री।


धर्मशाला, २० जूनमासः (हि.स.)। योगासने उत्कृष्टं प्रदर्शनं कृत्वा सप्तदशवर्षीयः यशोवर्धन-अत्री देशे विदेशे च हिमाचलप्रदेशस्य नाम गौरवान्वितवान्। गत-नववर्षेभ्यः सः निरन्तराभ्यासेन परिश्रमेण च योगासने जनपदस्तरात् आरभ्य अन्ताराष्ट्रिय-स्तरपर्यन्तं विविधासु स्पर्धासु सहभागित्वा अनेकानि पदकानि प्राप्तवान्।

हमीरपुरस्य प्रथम-वार्ड-इत्यस्य निवासी हिम-अकादमी-पब्लिक-विद्यालयस्य विकासनगर-शाखायाः द्वादशकक्षायाः छात्रः यशोवर्धन-अत्री स्कूली-गेम्स-फेडरेशन-ऑफ-इण्डिया, भारत-योगासन-संघस्य तथा वाई-एफ्-आई-संस्थायाश्च विविधासु प्रतियोगितासु श्रेष्ठ-योगासन-क्रीडकत्वेन स्वस्य वैशिष्ट्यं स्थापितवान्। सः विभिन्नेषु आयुवर्गेषु जनपदस्तरात् आरभ्य अन्ताराष्ट्रिय-स्तरपर्यन्तं पदकानि विजित्य हिमाचलप्रदेशस्य भारतस्य च नाम गौरवान्वितवान्।

एशियाई-क्रीडासु राष्ट्रकुल-क्रीडासु च भारताय पदकप्राप्तिः लक्ष्यम्

यशोवर्धन-अत्री अवदत् यत् सः स्वप्रशिक्षकाणां मार्गदर्शने प्रतिदिनं त्रिचतुः-होरापर्यन्तं योगासनाभ्यासं करोति। अग्रिमकाले एशियाई-क्रीडासु तथा राष्ट्रकुल-क्रीडासु भारताय पदकं प्राप्तुं तस्य प्रमुखं लक्ष्यं वर्तते।

क्रीडासत्रे २०२५–२६ सः राज्य-विद्यालय-क्रीडासु (१४–१९ आयुवर्गे) स्वर्णपदकं प्राप्तवान्। तदतिरिक्तं भारत-योगासन-संबद्ध-राज्य-प्रतियोगितायां स्वर्णपदकानां हैट्ट्रिक् अकरोत्। एवमेव वाई-एफ-आई-संबद्ध-राज्य-प्रतियोगितायामपि स्वर्णपदकं विजित्य एकस्मिन् एव क्रीडासत्रे पञ्च स्वर्णपदकानि प्राप्तवान्।

राष्ट्रीयस्तरे कोलकातानगरे आयोजितासु एसजीएफआई-क्रीडासु अण्डर-१९-वर्गे तथा विजयवाडानगरे आयोजितायां षष्ठ-जूनियर-राष्ट्रीय-योगासन-प्रतियोगितायाम् अण्डर्-१८-पुरुषवर्गे उत्कृष्टं प्रदर्शनं कृत्वा अन्तिम-चतुर्षु स्थानं प्राप्तवान् तथा स्वस्य अद्भुतां प्रतिभां प्रदर्शितवान्। वाई-एफ-आई-संस्थायाः पञ्चाशत्तमे राष्ट्रीय-योगासन-चैम्पियनशिप-प्रतियोगितायामपि तेन प्रभावशालीप्रदर्शनं कृतम्।

सिङ्गापुरे भारतीयदलाय कांस्यपदकं लब्धम्

अन्ताराष्ट्रियस्तरे वर्षे २०२५ सिङ्गापुरे आयोजितायां दशम-एशियाई-योगासन-क्रीडा-चैम्पियनशिप-प्रतियोगितायां योगा-फेडरेशन-ऑफ-इण्डिया-इत्यस्य प्रतिनिधित्वं कुर्वन् सः भारतीयदलस्य सदस्यत्वेन कांस्यपदकं विजित्य राष्ट्रं गौरवान्वितवान्।

अद्य यशोवर्धन-अत्री हिमाचलप्रदेशस्य यूनां कृते प्रेरणास्रोतः भूत्वा योगासनं प्रति जन-जागरूकतां वर्धयति।

उल्लेखनीयं यत् तस्य पिता नरेन्द्र-अत्री अपि प्रदेशस्य उत्कृष्टः क्रीडकः आसीत्। सम्प्रति सः हिमाचलप्रदेश-ओलम्पिक-संघस्य उपाध्यक्षत्वेन क्रीडाविकासाय महत्त्वपूर्णं योगदानं ददाति।

Hindusthan Samachar / Divya Ranjan