Enter your Email Address to subscribe to our newsletters

कोल्हापुरम्, 20 जूनमासः (हि.स.)। महाराष्ट्रराज्यस्य कोल्हापुरनगरे स्थितस्य सुप्रसिद्धस्य श्रीमहालक्ष्मीमन्दिरस्य पुनरुद्धारपरियोजनायाः अद्य अत्र शुभारम्भः कृतः।
केन्द्रीयगृहसहकारितामन्त्री अमित शाह महोदयः राज्यस्य मुख्यमन्त्रिणः देवेन्द्र फडणवीस महोदयस्य तथा उपमुख्यमन्त्रिणः एकनाथ शिन्दे महोदयस्य उपस्थितौ १४४५.९७ कोटिरूप्यकपरिमितायाः करवीरनिवासिन्याः श्रीअम्बाबाईमन्दिरस्य संरक्षणसंवर्धनपरिसरविकासपरियोजनायाः शुभारम्भं कृतवान्। ततः पूर्वं गृहमन्त्री अमित शाह महोदयः स्वभार्यया सह श्रीअम्बाबायाः दर्शनं कृत्वा विधिवत् पूजार्चनां कृतवान्। अनन्तरं राममन्दिरे उत्सवविग्रहस्य पूजनम् अपि सम्पन्नम्।
तदनन्तरं मन्दिरपरिसरे विविधविकासकार्याणाम् आधारशिलायाः अनावरणम् अपि कृतम्। अस्मिन् अवसरे जिलाधिकारी विजय राठौड महोदयः नूतनपरिक्रमामार्गसहितस्य मुख्यमन्दिरस्य संरक्षणसंवर्धनविकासकार्याणां प्रस्तुतीकरणम् अकरोत्।
अस्मिन् कार्यक्रमे राज्यमन्त्रिमण्डले कोल्हापुरस्य पालकमन्त्री प्रकाश आबिटकर, मन्त्री चन्द्रकान्त पाटील, हसन मुश्रीफ, आशीष शेलार, संजय सावकारे, मकरन्द पाटील, माधुरी मिसाल इत्यादयः बहवः जनप्रतिनिधयः वरिष्ठप्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।
राज्यमन्त्रिमण्डलेन गतवर्षस्य ६ मई दिवसे अस्याः विकासपरियोजनायाः अनुमोदनं प्रदत्तम् आसीत्। प्रथमचरणे १४३.९० कोटिरूप्यकपरिमितानि कार्याणि प्रारभ्यन्ते, येषु मन्दिरस्य संरक्षणं मरम्मतकार्यं विद्युतीकरणं निगरानीचित्रग्रहणव्यवस्थायाः तथा प्रकाशव्यवस्थायाः नवीनीकरणं च क्रियते। अस्याः योजनायाः अन्तर्गतं दर्शनमण्डपः अन्नछत्रम् सूचना केन्द्रम् वेदपाठशाला भोजनगृहम् बहुउद्देशीयसभागृहम् सुरक्षाव्यवस्था प्राथमिकोपचारकेन्द्रम् वाहनस्थापनक्षेत्रम् आपणाः मुक्ताकाशरङ्गमञ्चश्च निर्मीयन्ते। एतदतिरिक्तं परिसरे स्थितानाम् एकचत्वारिंशत् लघुबृहताम् मन्दिराणां संरक्षणं नगरपरिक्रमामार्गस्य सौन्दर्यीकरणं च क्रियिष्यते।
कोल्हापुरस्य श्रीमहालक्ष्मीमन्दिरम् भारतस्य प्राचीनजागृतप्रमुखशक्तिपीठेषु अन्यतमं मन्यते। सहस्रवर्षाधिकप्राचीनइतिहासयुक्तस्य अस्य मन्दिरस्य उल्लेखः विविधपुराणेषु ऐतिहासिकग्रन्थेषु च प्राप्यते। हेमाडपन्थीस्थापत्यशैली समृद्धशिल्पकला धार्मिकपरम्पराश्च अस्य मन्दिरस्य अद्वितीयवैशिष्ट्यम् अस्ति। एतत् मन्दिरं देशविदेशस्थलक्षशः श्रद्धालूनाम् आस्थाकेन्द्रम् अस्ति।
मन्दिरपरिसरे आधारभूतसंरचनायाः उन्नयनम् सम्पदासंरक्षणम् श्रद्धालूनां कृते आधुनिकसुविधानां व्यवस्था पर्यटनविकासश्च एतेषां सर्वेषां पक्षाणां विचारं कृत्वा एषा योजना कार्यान्वीयते। विकासस्य सम्पदासंरक्षणस्य च सम्यक्सन्तुलनेन अस्याः परियोजनायाः पूर्णत्वे मन्दिरपरिसरस्य भव्यता अधिका भविष्यति तथा च श्रद्धालुभ्यः अधिकाः सुगमाः सुरक्षिताः आधुनिकसुविधाश्च उपलब्धाः भविष्यन्ति।--------------------------
Hindusthan Samachar / Dheeraj Maithani