योगी-सर्वकारस्य “मिनी-नन्दिनी-कृषक-समृद्धि-योजना” द्वारा दुग्धोत्पादनाय वर्धनं भविष्यति, प्रयागराजे षट् लाभार्थिनां चयनं करिष्यते
प्रयागराजनगरम्, 20 जूनमासः (हि.स.)। मुख्यमन्त्रीयोगी-आदित्यनाथस्य नेतृत्वे प्रदेशे दुग्धोत्पादनवृद्धये, स्वदेशी-गौवंशसंरक्षणस्य प्रोत्साहनाय, ग्रामीणपरिवाराणां आर्थिकसशक्तीकरणाय च सञ्चालिता “मिनी-नन्दिनी-कृषक-समृद्धि-योजना” अधिकं प्रभावी तथा पारदर्
मिनी नंदनी योजना की प्रतीकात्मक छाया चित्र


प्रयागराजनगरम्, 20 जूनमासः (हि.स.)। मुख्यमन्त्रीयोगी-आदित्यनाथस्य नेतृत्वे प्रदेशे दुग्धोत्पादनवृद्धये, स्वदेशी-गौवंशसंरक्षणस्य प्रोत्साहनाय, ग्रामीणपरिवाराणां आर्थिकसशक्तीकरणाय च सञ्चालिता “मिनी-नन्दिनी-कृषक-समृद्धि-योजना” अधिकं प्रभावी तथा पारदर्शी कृता अस्ति। योजनायाः अन्तर्गतं जनपदे प्रयागराजे षट् लाभार्थिनां चयनस्य लक्ष्यं निर्धारितम् अस्ति, यस्मिन् तिस्र: महिलाः त्रयः पुरुषाश्च लाभान्विताः भविष्यन्ति।

मुख्यपशुचिकित्साधिकारी डॉ.शिवनाथ-यादवः शुक्रवासरे अवदत् यत् योजनायाः अन्तर्गतं लाभार्थिभिः दश स्वदेशी-नस्ल-गवां पालनं कर्तव्यम् अस्ति। प्रदेश-सर्वकारेण योजनायाः क्रियान्वयने बहूनि महत्त्वपूर्ण-संशोधनाना कृताः, येन पात्रपशुपालकाः योजनायाः लाभं सुलभतया प्राप्तुं शक्नुवन्ति।

तेन उक्तं यत् अस्मिन् वारं आवेदनप्रक्रियायां धनागारतः सैद्धान्तिक-सहमति-पत्रप्राप्तेः अनन्तरमेव आवेदनं कर्तुं शक्यते। चयनितेभ्यः अभ्यर्थिभ्यः चयनपत्रप्रदानात् द्विमासाभ्यन्तरे ऋणस्वीकृतिः अनिवार्या भविष्यति। निर्धारितकालाभ्यन्तरे ऋणं न स्वीकृतं चेत् आवेदनं स्वतः निरस्तं मन्यते।

डॉ. यादवः अवदत् यत् येषां आवेदकानां धनागारे षण्मासाभ्यन्तरे 11.80 लक्ष-रूप्यकाणां धनराशिः उपलब्धा अस्ति, तथा ये धनागारतः तस्य प्रमाणपत्रं प्रस्तुवन्ति, ते स्वकीय-राश्या परियोजनां सञ्चालयितुं शक्नुवन्ति। एतेषु सन्दर्भेषु धनागारऋणं न अनिवार्यम् अस्ति।

योजनायां चारा-उत्पादनाय 0.8 हेक्टेयर-भूमेः अनिवार्यतां अपि व्यवहारिकं कृत्वा सन्धि-अनुबन्धेन पूर्तेः सुविधा प्रदत्ता अस्ति। अनेन भूमिहीनाः अथवा सीमितभूमिसम्पन्नाः पशुपालकाः अपि योजनया योजितुं शक्नुवन्ति।

मुख्यपशुचिकित्साधिकारी अवदत् यत् यदि निर्धारितलक्ष्यादधिकाः पात्राः आवेदनानि प्राप्तानि भवन्ति तर्हि लाभार्थिनां चयनं पूर्णपारदर्शितया ई-लॉटरीमाध्यमेन करिष्यते। इच्छुकाः अभ्यर्थिनः “नन्दबाबा-दुग्धमिशन”-इत्रस्य आधिकारिकजालपुटे अन्तर्जाल-आवेदनं कर्तुं शक्नुवन्ति।

सः उक्तवान् यत् मुख्यमन्त्रीयोगी-आदित्यनाथस्य सरकार ग्रामीण-अर्थव्यवस्थां सुदृढीकर्तुं, पशुपालकानां आयवृद्धये, स्वदेशी-गौवंशाधारित-दुग्धोत्पादनस्य प्रोत्साहनाय च निरन्तरं नवीनयोजनाः सञ्चालयति। “मिनी-नन्दिनी-कृषक-समृद्धि-योजना” अस्मिन् दिशि महत्त्वपूर्ण: प्यत्न: अस्ति, या पशुपालकेभ्यः आत्मनिर्भरता-समृद्ध्योः नवीनं मार्गं प्रशस्तं करिष्यति।

Hindusthan Samachar / Divya Ranjan