विधायकः किरणदेवः त्रिदिवसीय-विकास-प्रदर्शिन्याः शुभारम्भम् अकरोत्
जगदलपुरम्, 20 जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य द्वादश-वर्ष-पूर्त्याः अवसरे जनसम्पर्क-विभागेन जगदलपुरनगरस्य ऐतिहासिके सिरहासार-चत्वरे त्रिदिवसीय-विकास-प्रदर्शिन्याः आयोजनं कृतम्। शनिवासरे विधायकः किरणदेवः रज्ज
विधायक किरण देव ने तीन दिवसीय विकास प्रदर्शनी का किया शुभारंभ


जगदलपुरम्, 20 जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य द्वादश-वर्ष-पूर्त्याः अवसरे जनसम्पर्क-विभागेन जगदलपुरनगरस्य ऐतिहासिके सिरहासार-चत्वरे त्रिदिवसीय-विकास-प्रदर्शिन्याः आयोजनं कृतम्। शनिवासरे विधायकः किरणदेवः रज्जू-कर्तनेन प्रदर्शिन्याः शुभारम्भम् अकरोत्। अस्मिन् अवसरे सः प्रधानमन्त्रिणः कार्यकाले केन्द्र-राज्यसर्वकारयोः जनकल्याणकारी-योजनानां कार्यान्वयनम्, प्रगतिः तथा उपलब्धयः प्रदर्शयन्ति छायाचित्राणि अवलोकितवान्।

कार्यक्रमम् उद्दिश्य सम्बोधयन् विधायकः किरणदेवः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वस्य कार्यशैल्याश्च प्रशंसां कृत्वा अवदत् यत् प्रधानमन्त्री निरन्तरं राष्ट्रसेवां कुर्वन् राष्ट्रनिर्माणे महत्त्वपूर्णं योगदानं दत्तवान्। तस्य नेतृत्वे भारतदेशेन विकासस्य नूतनाः आयामाः स्थापिताः, वैश्विक-स्तरे च भारतस्य प्रतिष्ठा सुदृढा अभवत्। सः अवदत् यत् केन्द्र-राज्यसर्वकारयोः योजनाः समाजस्य सर्वेषां वर्गाणां कृते समानरूपेण सञ्चाल्यन्ते। प्रधानमन्त्री-आवास-योजना, निःशुल्क-राशन-योजना, आयुष्मान्-भारत-योजना, उज्ज्वला-योजना, सौर-ऊर्जा-योजना इत्यादिभिः अनेकेभ्यः सामान्यजनाय लाभः प्राप्यते।

स्वानुभवं वर्णयन् सः अवदत् यत् स्वयम् अपि ‘हर-घर-सूर्य-योजना’ इत्यस्याः लाभं प्राप्तवान्। सौर-ऊर्जा-पट्टिकानां स्थापनानन्तरं विद्युत्-व्ययः पर्याप्तरूपेण न्यूनः अभवत्। तेन सामान्यनागरिकाः अपि सर्वकारीय-योजनानां लाभं ग्रहीतुं प्रेरिताः।

विधायकः किरणदेवः अवदत् यत् देशे आधारभूत-सुविधानां क्षेत्रे द्रुतगत्या कार्यं प्रवर्तते। मार्ग-विस्तारः, रेलस्थानकानां आधुनिकीकरणम्, मेट्रो-सेवानां विस्तारश्च तस्य उदाहरणानि सन्ति। सः पुनरवदत् यत् छत्तीसगढराज्यं देशश्च नक्सलवाद-मुक्तेः दिशि अग्रे गच्छतः तथा आर्थिक-क्षेत्रेऽपि भारतदेशः शीघ्रं प्रगतिं करोति।

अन्ते विधायकः जनसम्पर्क-विभागेन आयोजितायाः प्रदर्शिन्याः प्रशंसां कृत्वा अवदत् यत् एषा प्रदर्शिनी सामान्यनागरिकेभ्यः सर्वकारीय-योजनानां विकासकार्याणां च सूचनां प्रदातुं श्रेष्ठं माध्यमम् अस्ति। अस्मिन् अवसरे वेदप्रकाश-पाण्डेयः, रजनीश-पाणिग्रही, आनन्द-झा, योगेन्द्र-पाण्डेयः, प्रकाश-झा, अविनाशः, रिंकू-शर्मा, अन्ये च दल-पदाधिकारीणः, जनसम्पर्क-विभागस्य उपसञ्चालकः कमलकुमार-बघेलः, चन्द्रशेखर-कश्यपः, अधिकारी-कर्मचारिणः तथा बहुसंख्यकाः नागरिकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Divya Ranjan