इन्दौर-उज्जयिनी-ग्रीनफील्ड-मार्गपरियोजनायाः भूमिपूजनम् अद्य, सिंहस्थ-२०२८ इत्यस्य सिद्धतायै वेगः प्राप्स्यति
इन्दौरनगरम्, २० जूनमासः (हि.स.)। सिंहस्थ-महोत्सव-२०२८ इत्यस्य सिद्धतासु गतिं प्रदातुं केन्द्रीय-नगरीयविकास-आवासमन्त्री मनोहरलाल-खट्टरः तथा मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य प्रातः ११ वादने सांवेर-विधानसभाक्षेत्रस्य चन्द्रावतीगञ्जे इन्दौर
सीएम मोहन यादव (फाइल फोटो)


इन्दौरनगरम्, २० जूनमासः (हि.स.)। सिंहस्थ-महोत्सव-२०२८ इत्यस्य सिद्धतासु गतिं प्रदातुं केन्द्रीय-नगरीयविकास-आवासमन्त्री मनोहरलाल-खट्टरः तथा मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य प्रातः ११ वादने सांवेर-विधानसभाक्षेत्रस्य चन्द्रावतीगञ्जे इन्दौर-उज्जयिनी-ग्रीनफील्ड-मार्गपरियोजनायाः भूमिपूजनं करिष्यतः। अस्मिन् अवसरे जलसम्पदा-मन्त्री तुलसीराम-सिलावटः अपि विशेषरूपेण उपस्थितः भविष्यति।

जनसम्पर्काधिकारी महिपाल-अजयः अवदत् यत् एषा परियोजना सिंहस्थस्य दृष्ट्या प्रदेशाय महदपहारम् अस्ति। प्रायः ४८ किलोमीटर-दीर्घस्य अस्य चतुर्मार्गीयस्य ग्रीनफील्ड-मार्गस्य निर्माणं प्रायः २९३५ कोटिरूप्यकव्ययेन भविष्यति। अयं मार्गः इन्दौरस्य पितृपर्वत-प्रदेशात् आरभ्य उज्जयिन्याः चिन्तामणि-गणेश-मन्दिरस्य समीपे स्थितं सिंहस्थ-बायपास-मार्गं यावत् गमिष्यति।

अस्य मार्गस्य निर्माणेन इन्दौर-उज्जयिन्योः मध्ये यातायातः अधिकः सुगमः शीघ्रश्च भविष्यति। तथा च सिंहस्थ-मेलापकम् आगच्छतां लक्षशः श्रद्धालूनां महती सुविधा भविष्यति।

सः अपि अवदत् यत् अस्याः परियोजनायाः कृते आहत्य ९१७ कृषकाणां प्रायः २४२.९३९ हेक्टेयर-परिमिता भूमिः प्रभाविताभवत्। तस्याः प्रतिपूर्तिरूपेण सर्वकारेण ८१६ कोटिरूप्यकाधिकं प्रतिकरं प्रदत्तम्। विशेषतया कृषकेभ्यः उपायुक्त-मार्गदर्शिकायाः मूल्यानुसारं न, अपितु विक्रयमूल्यानुसारं चतुर्गुणात् अष्टगुण-पर्यन्तम् अधिकं प्रतिकरं प्रदत्तम्, यत् प्रदेशे प्रथमवारम् अभवत्। अनेन कृषकाणां मध्ये सन्तोषस्य वातावरणम् अस्ति।

जनसम्पर्काधिकारिणः अनुसारम् अनेन मार्गेण इन्दौर-जनपदस्य २० ग्रामाः तथा उज्जयिनी-जनपदस्य ८ ग्रामाः प्रत्यक्षरूपेण सम्बद्धाः भविष्यन्ति। तथा च समीपस्थानां ४०–५० ग्रामाणां प्रायः १५ लक्षजनानां लाभः भविष्यति।

एतदतिरिक्तं बाह्यराज्येभ्यः आगच्छन्तः श्रद्धालवः विमानस्थानकात् प्रत्यक्षतया अनेन मार्गेण उज्जयिनीं प्राप्स्यन्ति। अनेन सिंहस्थकाले यातायातप्रभावः न्यूनः भविष्यति तथा यात्रा अधिका सुगमा भविष्यति।

एषा परियोजना केवलं सिंहस्थव्यवस्थानां सुदृढीकरणपर्यन्तं सीमिता न भविष्यति, अपितु इन्दौर-उज्जयिनी-क्षेत्रस्य औद्योगिक-व्यापारिक-पर्यटनविकासाय अपि नूतनां दिशां प्रदास्यति। एषा मालवाक्षेत्रस्य विकासस्य नूतना विकासवाहिनी भविष्यति।

Hindusthan Samachar / Divya Ranjan