Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य पश्चिमबङ्गस्य हुगली-जनपदान्तर्गतस्य तारकेश्वर-नगरात् प्रधानमन्त्री-कृषकसम्माननिधि-योजनायाः अन्तर्गतं देशव्यापिनां कृषकाणां कृते त्रयोविंशतितमं भागम् अन्तरितं करिष्यति। अस्य भागस्य अन्तर्गतं मध्यप्रदेशस्य ८१ लक्षाधिकानां कृषकाणां धनागारेषु प्रायः १६४० कोटिरूप्यकाणां धनराशिः अन्तरिता भविष्यति।
जनसम्पर्काधिकारिणी जूही-श्रीवास्तवः अवदत् यत् प्रधानमन्त्री-कृषक-सम्माननिधि-योजना २०१९ तमवर्षात् प्रवर्तमाना अस्ति। अस्याः योजनायाः अन्तर्गतं पात्रेभ्यः कृषककुटुम्बेभ्यः प्रतिवर्षं ६ सहस्ररूप्यकाणां साहायताराशिः त्रिषु समभागेषु प्रत्यक्षतया तेषां धनागारेषु प्रदीयते।
योजनायाः द्वाविंशतिभागपर्यन्तं मध्यप्रदेशस्य कृषककुटुम्बेभ्यः प्रायः ३३ सहस्रं ८०० कोटिरूप्यकाणां धनराशिः वितरिता अस्ति।
सा अपि अवदत् यत् प्रदेशे मुख्यमन्त्री-कृषक-कल्याण-योजनायाः माध्यमेनापि कृषकेभ्यः प्रतिवर्षं ६ सहस्ररूप्यकाणां साहाय्यराशिः प्रदीयते। एवं प्रधानमन्त्री-कृषकसम्माननिधि-योजना तथा मुख्यमन्त्री-कृषक-कल्याण-योजनायाः माध्यमेन प्रदेशस्य पात्रकृषककुटुम्बेभ्यः प्रतिवर्षम् आहत्य १२ सहस्ररूप्यकाणां आर्थिकसाहाय्यम् उपलभ्यते।
उभययोजनयोः माध्यमेन अधुना यावत् कृषकेभ्यः ५६ सहस्रं २४० कोटिरूप्यकाणां धनराशिः वितरिता अस्ति।
Hindusthan Samachar / Divya Ranjan