मनोहर लालः उज्जैने कृतं सिंहस्थस्य 2028 निर्माण कार्याणां निरीक्षणम्
मुख्यमंत्री अवदत्-प्रधानमंत्रिणो नेतृत्वे सिंहस्थं-2028 भव्य-दिव्यं निर्मातुं निरंतरं कार्यं कुरूते सर्वकारः उज्जैनम्, 20 जूनमासः (हि.स.)।केन्द्रीयआवासननगरकार्येषु मन्त्री मनोहर लाल शनिवासरे उज्जयिन्यां सिंहस्थ २०२८ महापर्वणि श्रद्धालूनां सुविधार
उज्जैन में सिंहस्थ के घाट निर्माण कार्यों का निरीक्षण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


उज्जैन में सिंहस्थ के घाट निर्माण कार्यों की जानकारी देते हुए एसीएस


उज्जैन में कान्ह डायवर्शन क्लोज डक्ट परियोजना का निरीक्षण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


उज्जैन में कान्ह डायवर्शन क्लोज डक्ट परियोजना का निरीक्षण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


उज्जैन में सिंहस्थ के घाट निर्माण कार्यों का निरीक्षण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


कपिला गौशाला का निरीक्षण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


कपिला गौशाला में गाय का पूजन करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


उज्जैन में घाट निर्माण कार्यों का निरीक्षण के दौरान पौधरोपण करते हुए मुख्यमंत्री और केन्द्रीय मंत्री


मुख्यमंत्री अवदत्-प्रधानमंत्रिणो नेतृत्वे सिंहस्थं-2028 भव्य-दिव्यं निर्मातुं निरंतरं कार्यं कुरूते सर्वकारः

उज्जैनम्, 20 जूनमासः (हि.स.)।केन्द्रीयआवासननगरकार्येषु मन्त्री मनोहर लाल शनिवासरे उज्जयिन्यां सिंहस्थ २०२८ महापर्वणि श्रद्धालूनां सुविधार्थं ७७८ कोटिरूप्यकव्ययेन निर्मीयमाणस्य २९.१५ किलोमीटरपरिमितस्य नवीनघाटनिर्माणकार्यस्य अवलोकनं कृतवान्। अस्मिन् अवसरे तेन सम्बन्धिताधिकारिभ्यः कार्यस्य गुणवत्तायाः समयसीमायाश्च विशेषतया ध्यानं दातुम् निर्देशाः प्रदत्ताः।

अस्मिन् अवसरे मुख्यमन्त्री मोहन यादव उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य नेतृत्वे सिंहस्थ २०२८ महापर्व भव्यं दिव्यं सुव्यवस्थितं च कर्तुं राज्यसर्वकारः निरन्तरं कार्यं करोति, येन देशविदेशेभ्यः आगच्छन्तः श्रद्धालवः सनातनसंस्कृतेः वैभवानुरूपं सिंहस्थानुभवं प्राप्नुयुः।

अपरमुख्यसचिवः राजेश राजौरा नवनिर्मितस्य त्रिवेणीघाटस्य निरीक्षणकाले सिंहस्थ २०२८ महापर्वणि श्रद्धालूनां सुविधार्थं क्रियमाणस्य नवीनघाटनिर्माणकार्यस्य विस्तृतां सूचना प्रदत्तवान्। तेन उक्तं यत् २९.१५ किलोमीटरपरिमितं नवीनघाटनिर्माणकार्यं ७७८ कोटिरूप्यकव्ययेन क्रियते। नवीनघाटेषु श्रद्धालूनाम् आवागमनार्थं १५० अधिकस्थलानि चिह्नितानि सन्ति। नवीनघाटनिर्माणकार्यस्य अन्तर्गतं १८.२० किलोमीटरपरिमिता धारकभित्तिः निर्मिता अस्ति तथा च ७ किलोमीटरपरिमितं नवीनघाटनिर्माणकार्यं पूर्णं जातम्। प्रायः २२ किलोमीटरपरिमिते क्षेत्रे घाटनिर्माणकार्यं तीव्रगत्या प्रचलति।

निरीक्षणकाले केन्द्रीयमन्त्री मनोहर लाल, मुख्यमन्त्री मोहन यादव, मन्त्री कैलाश विजयवर्गीय तथा तुलसीराम सिलावट त्रिवेणीघाटे निम्बवृक्षस्य रुद्राक्षवृक्षस्य अश्वत्थवृक्षस्य च रोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशं प्रदत्तवन्तः। मुख्यमन्त्री उक्तवान् यत् प्रदेशः वृक्षैः वनैश्च आच्छादितः भवेत् इति सर्वकारस्य प्राथमिकता अस्ति।

कान्हनदीपरिवर्तननिबद्धनालिकापरियोजनायाः निरीक्षणम् टनलमार्गे अवतीर्य गुणवत्तायाः परीक्षणम्

केन्द्रीयमन्त्री मनोहर लाल तथा मुख्यमन्त्री शनिवासरे कान्हनदीपरिवर्तननिबद्धनालिकापरियोजनायाः निरीक्षणं कृतवन्तौ। अस्मिन् अवसरे तौ परियोजनायाः भूमिगतमार्गभागे अवतीर्य निर्माणकार्याणां गुणवत्तां प्रगतिं च परीक्षितवन्तौ। निरीक्षणकाले चिन्तामन जवासिया ग्रामस्य समीपे स्थिते द्वितीयशाफ्टस्थले तृतीयमुखकार्यस्य विस्तृतां जानकारीं प्राप्तवन्तौ। अपरमुख्यसचिवः राजेश राजौरा योजनायाः विस्तृतविवरणं प्रदत्तवान्। एतदतिरिक्तं भूमिगतमार्गस्य प्रवेशमार्गरक्षणसम्बद्धानां तान्त्रिकविषयाणामपि सूचना प्रदत्ता।

उल्लेखनीयं यत् अस्याः परियोजनायाः मुख्योद्देश्यं कान्हनद्याः दूषितजलस्य नगरे शिप्रानद्याः प्रमुखघाटेषु तीर्थस्थलेषु च मिलनं निवारयितुम् अस्ति, येन शिप्रानद्याः जलं पवित्रं स्वच्छं च तिष्ठेत्। परियोजनायाः अन्तर्गतं उज्जयिनीतहसीलस्य जमालपुरग्रामे कान्हनद्याः उपरि एकस्य अवरोधबन्धस्य निर्माणं क्रियते, येन दूषितजलम् निबद्धनालिकामार्गेण ३०.१५ किलोमीटरपरिमितं मार्गं गत्वा गम्भीरबन्धस्य अधोप्रवाहभागे मोक्ष्यते।

परियोजनायाः प्रशासकीयस्वीकृतराशिः ९१९.९४ कोटिरूप्यकाणि अस्ति। अस्याः कुललम्बमानं ३०.१५ किलोमीटरपरिमितम् अस्ति, यस्मिन् आच्छादितखातनालिका १८.१५ किलोमीटर तथा भूमिगतमार्गः १२.०० किलोमीटर अस्ति। भूमिगतमार्गभागे प्रवेशस्य स्वच्छीकरणस्य अनुरक्षणस्य च कृते चत्वारः शाफ्टाः निर्मिताः सन्ति। नालिकायाः डी आकारयुक्तः अनुप्रस्थच्छेदः अधिकतमं ४० घनमीटरप्रतिक्षणपरिमितस्य दूषितजलस्य निष्कासनक्षमतां धारयति। परियोजना आगामिपञ्चविंशतिवर्षपर्यन्तं जनसङ्ख्यावृद्धिं दृष्ट्वा अभिकल्पिता अस्ति।

अधुना अवरोधबन्धस्य निर्माणकार्यं प्रचलति तथा च शीर्षनियामकनिर्माणकार्यं पूर्णं जातम्। आच्छादितखातनालिकायाः १८.१५ किलोमीटरपरिमितायाः कुललम्बमानस्य मध्ये ४.५० किलोमीटरपरिमिते क्षेत्रे पूर्वनिर्मितखण्डस्थापनकार्यं सम्पन्नम् अस्ति, अवशिष्टं कार्यं प्रचलति। १८.१५ किलोमीटरपरिमिते क्षेत्रे १०.३० किलोमीटरपरिमितलम्बमानस्य स्थापनोपयुक्ताः पूर्वनिर्मितखण्डाः सज्जीकृताः सन्ति। भूमिगतमार्गनिर्माणार्थं चतुर्णामपि शाफ्टानां निर्माणकार्यं पूर्णं जातम्। भूमिगतमार्गस्य १२.०० किलोमीटरपरिमितायाः कुललम्बमानस्य मध्ये ८.१५ किलोमीटरपरिमितस्य उत्खननकार्यं सम्पन्नम् अस्ति, अवशिष्टं कार्यं प्रचलति।

कपिला गोशालां गत्वा गोपूजनम्

केन्द्रीयमन्त्री मनोहर लाल तथा मुख्यमन्त्री शनिवासरे रत्नाखेडीग्रामस्थितां कपिला गोशालां गत्वा गोमातुः पूजनं कृत्वा पश्वाहारं प्रदाय आशीर्वादं प्राप्तवन्तौ। जिलाधिकारी रोशन कुमार सिंह गोशालायाः प्रस्तावितकार्यस्य विषये मानचित्रस्य माध्यमेन विस्तृतां सूचना प्रदत्तवान्।

मुख्यमन्त्री मोहन यादवः उक्तवान् यत् प्रदेशसर्वकारेण स्थानीयनिकायानां माध्यमेन गोशालासञ्चालनस्य आदर्शव्यवस्था विकसिताऽस्ति। अस्याः व्यवस्थायाः अन्तर्गतं नागरग्रामीणनिकायेभ्यः गोशालासञ्चालनार्थम् आवश्यकसहयोगः साहाय्यं च प्रदीयते। सहैव विशालस्तरे सामुदायिकगोशालासञ्चालनम् इच्छद्भ्यः संस्थाभ्यः व्यक्तिभ्यश्च सर्वकारेण प्रोत्साहनं सहयोगश्च प्रदीयते।

तेन उक्तं यत् रत्नाखेडीस्थितायां कपिला गोशालायां प्रायः २००० गोवंशधारणक्षमता विकसितं क्रियते।

अच्युतानन्दमहाराजस्य सहयोगेन गोसेवायां गोसंरक्षणे च जनसहभागिता निरन्तरं वर्धते। इन्दौर उज्जयिनी भोपाल जबलपुर ग्वालियर इत्यादिषु विविधेषु नगरेषु जनाः स्वजन्मदिनेषु अन्येषु विशेषावसरेषु च गोशालासु गत्वा गोसेवां कुर्वन्ति, येन गोसेवायाः प्रति सामाजिकजागरूकता वर्धिता अस्ति।

निर्माणकार्याणाम् निरीक्षणकाले जनप्रतिनिधयः प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani