केन्द्रीयमन्त्री मनोहरलालः उज्जयिन्यां महाकाल-महालोकस्य अवलोकनं कृतवान्, प्रकाश-ध्वनि-प्रदर्शनमपि अपश्यत्
उज्जयिनीनगरम्, २० जूनमासः (हि.स.)। केन्द्रीय-ऊर्जा-तथा-आवास-नगरीयविकासमन्त्री मनोहरलाल-खट्टरः शुक्रवासरस्य रात्रौ उज्जयिनीप्रवासस्य अवसरे महाकालेश्वरमन्दिरपरिसरे स्थितस्य श्रीमहाकालमहालोकस्य अवलोकनं कृतवान्। अस्मिन् अवसरे तेन सह मध्यप्रदेशस्य मुख्य
उज्जैन में लाइट एंड साउंड शो का प्रदर्शन देखते हुए केन्द्रीय मंत्री खट्टर


उज्जैन में लाइट एंड साउंड शो का प्रदर्शन


उज्जैन में लाइट एंड साउंड शो का प्रदर्शन देखते हुए केन्द्रीय मंत्री खट्टर


उज्जैन में लाइट एंड साउंड शो का प्रदर्शन


महाकाल मंदिर में केन्द्रीय मंत्री खट्टर को सम्मानित करते हुए मुख्यमंत्री


महाकाल मंदिर में दर्शन उपरांत केन्द्रीय मंत्री खट्टर


उज्जयिनीनगरम्, २० जूनमासः (हि.स.)। केन्द्रीय-ऊर्जा-तथा-आवास-नगरीयविकासमन्त्री मनोहरलाल-खट्टरः शुक्रवासरस्य रात्रौ उज्जयिनीप्रवासस्य अवसरे महाकालेश्वरमन्दिरपरिसरे स्थितस्य श्रीमहाकालमहालोकस्य अवलोकनं कृतवान्। अस्मिन् अवसरे तेन सह मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अपि उपस्थितः आसीत्।

अवलोकनकाले सम्भागायुक्तः आशीषसिंहः केन्द्रीयमन्त्रिणे मनोहर-लालाय महाकाललोके स्थापितानां भगवता शिवेन त्रिपुरासुरस्य संहारं प्रदर्शयन्तीनां तथा अन्यासां प्रतिमानां विषये विस्तृतां सूचनाम् अयच्छत्। ततः परं केन्द्रीयमन्त्री खट्टरः, मुख्यमन्त्री डॉ.यादवः तथा अन्ये जनप्रतिनिधयः रुद्रसागरे आयोजितं प्रकाश-ध्वनि-प्रदर्शनम् अपश्यन्।

श्रीमहाकालमहालोकस्य रुद्रसागरतीरे निर्मिते मञ्चे अतिथीनां आगमनसमये श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्याः अधीनस्थेन श्रीमहाकालवाद्यवृन्देन “महाकाल सरकार मेरे महाकाल सरकार” इति गीतस्य संगीतमयी प्रस्तुतिः प्रदत्ता। अनन्तरं प्रकाश-ध्वनि-प्रदर्शने लेसर-प्रकाशैः, जलपटलप्रदर्शनेन तथा उत्कृष्टध्वनिप्रभावैः बाबा महाकालस्य, मातुः शिप्रायाः तथा प्राचीनायाः अवन्तिकानगर्याः पौराणिककथाः अतीव मनोहररीत्या प्रदर्शिताः।

प्रकाश-ध्वनि-लेसर-प्रदर्शनस्य दर्शनानन्तरं ई-कार्टयानस्य उपयोगेन श्रीमहाकालमहालोकस्य अवलोकनकाले मुख्यमन्त्री डॉ.यादवः केन्द्रीयमन्त्रिणे खट्टराय तत्र स्थापितानां विविधप्रतिमानां विषये सूचनाम् अयच्छत्।

अस्मिन् अवसरे नगरीयविकास-आवासमन्त्री कैलाशविजयवर्गीयः, राज्यमन्त्री प्रतिमाबागरी, विधायकः अनिलजैन-कालूहेडा, नगरनिगम-सभापतिः कलावतीयादवः, उज्जयिनी-विकासप्राधिकरणस्य अध्यक्षः रविसोलङ्की, संजय-अग्रवालः, अपर-मुख्यसचिवः संजयदुबे, नगरीय-प्रशासनायुक्तः संकेतभोंडवे इत्यादयः जनप्रतिनिधयः वरिष्ठ-अधिकारिणश्च उपस्थिताः आसन्।

एतस्मात् पूर्वं केन्द्रीयमन्त्री मनोहरलालः तथा मुख्यमन्त्री मोहनयादवः विश्वविख्यातं ज्योतिर्लिङ्गं भगवान्-महाकालेश्वरमन्दिरं गत्वा बाबामहाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तौ। तौ भगवतः महाकालस्य पूजार्चनमपि कृतवन्तौ।

Hindusthan Samachar / Divya Ranjan