केन्द्रीयमन्त्री मनोहरलालः अद्य मध्यप्रदेशाय विकासस्य उपहारद्वयं प्रदास्यति
भोपालनगरम्, २० जूनमासः (हि.स.)। केन्द्रीय-आवासन-नगरीयकार्य-मन्त्री मनोहरलालः अद्य मध्यप्रदेशस्य प्रवासे भविष्यति। सः इन्दौरनगरे विकासस्य उपहारद्वयं प्रदास्यति। अस्मिन् अवसरे प्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अपि तेन सह उपस्थितः भविष्यति। जनसम्पर
केंद्रीय मंत्री मनोहर लाल और मुख्यमंत्री (फाइल फोटो)


भोपालनगरम्, २० जूनमासः (हि.स.)। केन्द्रीय-आवासन-नगरीयकार्य-मन्त्री मनोहरलालः अद्य मध्यप्रदेशस्य प्रवासे भविष्यति। सः इन्दौरनगरे विकासस्य उपहारद्वयं प्रदास्यति। अस्मिन् अवसरे प्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अपि तेन सह उपस्थितः भविष्यति।

जनसम्पर्काधिकारी अरुणशर्मा अवदत् यत् इन्दौरजनपदस्य सांवेरक्षेत्रे प्रधानमन्त्री-आवास-योजनान्तर्गतं ४२ सहस्राधिकेभ्यः पात्रहितग्राहिभ्यः २५०० कोटिरूप्यकाधिकमूल्यस्य आवास-निर्माणस्वीकृतिपत्राणि प्रदास्यन्ते। तथा च ३८ सहस्राधिकानां परिवाराणां नूतनेषु पक्वगृहेषु गृहप्रवेशः कारयिष्यते।

तदतिरिक्तं केन्द्रीयमन्त्री मनोहरलालः तथा मुख्यमन्त्री डॉ.मोहनयादवः २९३५ कोटिरूप्यकव्ययेन निर्मीयमाणायाः ४८.१० किलोमीटरदीर्घायाः महत्त्वाकाङ्क्षिण्याः इन्दौर-उज्जयिनी-ग्रीनफील्ड-चतुर्मार्ग-परियोजनायाः भूमिपूजनमपि करिष्यतः।

Hindusthan Samachar / Divya Ranjan