राष्ट्रपतिः मुर्मुः अद्य सायं जबलपुरं आगमिष्यति, श्वः विश्वयोगदिवसकार्यक्रमे सहभागिनी भविष्यति
जबलपुरम्, २० जूनमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः अद्य सायंकाले मध्यप्रदेशप्रवासे जबलपुर-नगरम् आगमिष्यति। सा अत्र रविवासरे, २१ जूनदिनाङ्के आयोजिते विश्वयोगदिवसस्य कार्यक्रमे सहभागिनी भविष्यति। जबलपुर-जनपदप्रशासनेन प्रकाशित-कार्यक्रम
राष्ट्रपति द्रौपदी मुर्मू (फाइल फोटो)


जबलपुरम्, २० जूनमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः अद्य सायंकाले मध्यप्रदेशप्रवासे जबलपुर-नगरम् आगमिष्यति। सा अत्र रविवासरे, २१ जूनदिनाङ्के आयोजिते विश्वयोगदिवसस्य कार्यक्रमे सहभागिनी भविष्यति।

जबलपुर-जनपदप्रशासनेन प्रकाशित-कार्यक्रमानुसारं राष्ट्रपतिः द्रौपदीमुर्मुः सायं ६:१० वादने भारतीयवायुसेनायाः विशेषविमानेन कलैकुण्डा-विमानस्थानकात् जबलपुरम् आगमिष्यति। डुम्ना-विमानस्थानके राज्यपालः मङ्गुभाई-पटेलः तथा उपमुख्यमन्त्री जगदीशदेवडा राष्ट्रपतेः स्वागतं करिष्यतः।

राष्ट्रपतिः जबलपुर-विमानस्थानकात् सर्किट-हाउस-क्रमाङ्क-एकम् आगमिष्यति तथा रात्रिविश्रामानन्तरं रविवासरे, २१ जूनदिनाङ्के प्रातः ७:३० वादनात् सदर-क्षेत्रस्थिते गैरिसन-प्राङ्गणे आयोजिते अन्ताराष्ट्रिययोगदिवसस्य राज्यस्तरीयकार्यक्रमे मुख्यातिथिरूपेण सहभागिनी भविष्यति।

निर्धारितकार्यक्रमानुसारं राष्ट्रपतिः अन्ताराष्ट्रिययोगदिवसस्य राज्यस्तरीय-कार्यक्रमानन्तरं प्रातः ८:३५ वादने गैरिसन-प्राङ्गणात् सर्किट-हाउस-क्रमाङ्क-एकं प्रति प्रस्थास्यति। ततः परं सा प्रातः ११:३० वादने सर्किट-हाउसतः प्रस्थित्य रानी-दुर्गावती-विश्वविद्यालयम् आगमिष्यति। तत्र सा प्रातः ११:५० वादनात् मध्याह्न १२:५० वादनपर्यन्तं विश्वविद्यालयस्य षट्त्रिंशत्तमे दीक्षान्त-समारोहे मुख्यातिथिरूपेण सहभागिनी भविष्यति।

कार्यक्रमानन्तरं राष्ट्रपतिः मध्याह्ने १:१० वादने जबलपुर-विमानस्थानकम् आगमिष्यति तथा तस्मात् भारतीयवायु-सेनायाः विशेषविमानेन ग्वालियरनगरं प्रति प्रस्थास्यति।

राष्ट्रपतिः मध्याह्ने २:२० वादने ग्वालियरम् आगमिष्यति। ततः सा हेलिकॉप्टरविमानेन कूनो-राष्ट्रीयोद्यानं प्रति गमिष्यति। सा अपराह्णे ३:३५ वादने कूनो-अतिथिगृहं प्राप्स्यति। राष्ट्रपतिः रात्रिविश्रामं कूनो-अतिथिगृहे करिष्यति।

अन्यस्मिन् दिने अर्थात् २२ जूनदिनाङ्के प्रातः ६:३० वादने सा कूनो-राष्ट्रीयोद्यानस्य भ्रमणं करिष्यति। ततः प्रातः १०:२० वादने कूनो-राष्ट्रीयोद्यानस्य हेलिपदात् प्रस्थित्य प्रातः ११:०५ वादने ग्वालियर-विमान-स्थानकं प्राप्स्यति। ग्वालियर-विमानस्थानकात् प्रातः ११:१५ वादने सा देहलीनगरं प्रति प्रस्थास्यति।

राष्ट्रपतेः अस्य प्रवासस्य दृष्ट्या सुरक्षायाः दृढाः प्रबन्धाः कृताः सन्ति। सर्वेषु कार्यक्रमस्थलेषु उच्चस्तरीया सुरक्षा व्यवस्था कृता अस्ति तथा नो-फ्लाइङ्ग-क्षेत्रमपि घोषितम् अस्ति।

Hindusthan Samachar / Divya Ranjan