मेलोनी ट्रम्पं प्रत्यवदत्— ‘मम लोकप्रियता भवतः उपरि न निर्भरति’
रोम/वॉशिङ्गटननगरम्, २० जूनमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पः तथा इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी इत्येतयोः मध्ये सामाजिक-माध्यमेषु प्रसारिताभिः टिप्पणीभिः अन्ताराष्ट्रिय-राजनैतिक-क्षेत्रेषु व्यापकः चर्चाविषयः समुत्पन्
मेलोनी ट्रम्पं प्रत्यवदत्— ‘मम लोकप्रियता भवतः उपरि न निर्भरति’


रोम/वॉशिङ्गटननगरम्, २० जूनमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पः तथा इटली-देशस्य प्रधानमन्त्री जॉर्जिया-मेलोनी इत्येतयोः मध्ये सामाजिक-माध्यमेषु प्रसारिताभिः टिप्पणीभिः अन्ताराष्ट्रिय-राजनैतिक-क्षेत्रेषु व्यापकः चर्चाविषयः समुत्पन्नः। उभयोः नेतृभ्यां कृतानां कथित-टिप्पणीनाम् अनन्तरं मेलोनी पाश्चात्य-राष्ट्राणां ऐक्यस्य संरक्षणस्य आवश्यकतायां विशेषम् अवधानम् अयच्छत्।

इटली-देशस्य प्रधानमन्त्री सामाजिक-माध्यम-मञ्चे इन्स्टाग्राम् इत्यत्र प्रकाशिते सन्देशे अवदत् यत् सा अमेरिकादेशस्य राष्ट्रपतेः नवीन-टिप्पण्याः उत्तरं दत्तवती, किन्तु एतत् प्रकरणम् अधिकं प्रवर्धयितुम् न इच्छति। सा पुनरपि पाश्चात्य-राष्ट्राणाम् एकतायां विश्वासं व्यक्तवती तथा सार्वजनिक-स्तरे एतादृशः विवादः उत्तरदायी-नेतृत्वस्य अनुरूपः न भवतीति उक्तवती।

अस्मात् पूर्वं सामाजिक-माध्यमेषु प्रसारिते एकस्मिन् सन्देशे राष्ट्रपतिः ट्रम्पः इटली-देशस्य प्रधानमन्त्रीं प्रति कतिपयाः टिप्पण्यः कृतवान्। तस्य प्रत्युत्तरे मेलोनी-पक्षतः प्रसारिते सन्देशे इटली-देशस्य सार्वभौमत्वस्य, राष्ट्रीय-हितानां तथा उभयदेशयोः मध्ये सुरक्षा-सम्बद्ध-व्यवस्थानां उल्लेखः कृतः।

मेलोनी स्वसन्देशे अवदत् यत् तस्याः राजनैतिक-लोकप्रियता कस्यापि वैयक्तिक-सम्बन्धस्य उपरि न निर्भरति, अपितु इटली-देशस्य राष्ट्रीय-हितानां संरक्षणे तस्याः सामर्थ्ये एव आधृता अस्ति। सा पुनरपि प्रतिपादितवती यत् इटली एकं सार्वभौमं राष्ट्रम् अस्ति तथा राष्ट्रीय-निर्णयाः राष्ट्रहितं पुरस्कृत्य एव गृह्यन्ते।

Hindusthan Samachar / Divya Ranjan