Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जूनमासः (हि.स.)। एनएमडीसी लिमिटेड्-निर्माण्याः वरिष्ठ-प्रबन्धनाधिकारिणः डोनीमलै-समुच्चयस्य भ्रमणम् अकुर्वन्। अस्मिन् अवसरे परिचालन-दक्षतायाः सुदृढीकरणार्थं, उत्तरदायी-खनन-पद्धतीनां प्रोत्साहनार्थं तथा कर्मचारिणां समीपवर्ती-समुदायानां च जीवन-गुणवत्तायाः उन्नयनार्थं प्रचलितानां विविध-रणनीतिक-उपक्रमाणां समीक्षा कृता।
इस्पातमन्त्रालयेन शनिवासरे प्रकाशिते विज्ञप्तौ उक्तं यत् एनएमडीसी-प्रबन्धनस्य अस्मिन् भ्रमणे डोनीमलै-समुच्चयं भविष्योपयुक्तं खनन-परिसरं निर्मातुं प्रवर्तमानानां प्रमुख-परियोजनानां प्रगतिम् अवलोकयितुं अवसरः प्राप्तः। एताभिः परियोजनाभिः एनएमडीसी भारतस्य बृहत्तमस्य उत्तरदायी-लौह-अयस्क-उत्पादकस्य रूपेण अधिकं सुदृढतया प्रतिष्ठां प्राप्नोति।
मन्त्रालयेन उक्तं यत् अस्मिन् अवसरे एनएमडीसी-निर्माण्याः अध्यक्षः तथा प्रबन्ध-निदेशकः अमिताभ-मुखर्जी कार्यपालक-निदेशकैः सह नवविकसितानां आधारभूत-सुविधानाम् उद्घाटनम् अकरोत्। तासु उच्च-आवास-भवनानि अपि अन्तर्भवन्ति, ये कर्मचारी-कल्याणे सामुदायिक-विकासे च एनएमडीसी-निर्माण्याः निरन्तर-प्रतिबद्धतां प्रकाशयन्ति। अस्मिन् समये कुमारस्वामी-खन्यात् १० एमटीपीए तथा डोनीमलै-समुच्चयात् १७ एमटीपीए उत्पादन-लक्ष्यस्य प्राप्त्यर्थं प्रवर्तमानानां क्षमता-विस्तार-आधारभूत-संरचना-विकास-उपक्रमाणाम् अपि समीक्षा कृता।
इस्पातमन्त्रालयेन उक्तं यत् एतेषाम् उपक्रमाणां माध्यमेन एनएमडीसी-निर्माण्याः १०० एमटीपीए-खनन-निर्माणी-रूपेण भवितुं निर्धारिते लक्ष्ये महत्त्वपूर्णं योगदानं भविष्यति। प्रबन्धनेन ३५ प्रतिशत-लौहतत्त्वयुक्तस्य लौह-अयस्कस्य, लौह-अयस्क-स्लाइम्स् तथा बैंडेड् हेमेटाइट् जैस्पर एवं बैंडेड् हेमेटाइट् क्वार्ट्जाइट् इत्यादीनां निम्न-श्रेणी-लौहयुक्त-पदार्थानां उपयोगाय प्रवर्तमानानाम् उपक्रमाणाम् अपि समीक्षा कृता। अपरञ्च कुमारस्वामी नूतनतया प्रवर्तितायाः स्वचालित-द्वार-प्रबन्धन-प्रणाल्याः अपि समीक्षा अभवत्।
उल्लेखनीयं यत् कर्नाटक-राज्यस्य बल्लारी-जनपदस्य संदूर-तालुके स्थितः डोनीमलै-समुच्चयः इस्पातमन्त्रालयस्य अधीनस्थायाः एनएमडीसी लिमिटेड्-निर्माण्याः प्रमुखं लौह-अयस्क-खनन-प्रसंस्करण-केन्द्रं अस्ति। अस्य समुच्चयस्य नाम कन्नड-भाषायाः ‘डोनी’ तथा ‘मलै’ इति शब्दाभ्यां निष्पन्नम्, यतः अत्र पर्वताः विपरीत-नौकायाः सदृशं रूपं धारयन्ति।
Hindusthan Samachar / Divya Ranjan