पूर्वी भारतम् अधुना प्रगतेः प्रवेश द्वारम्, ओडिशायै अमिलत्20 लक्षकोटिरुप्यकाणां निवेशस्य प्रस्ताव: - मोदी
- राष्ट्रपतेर्मुर्मोर्ग्रामः पहाड़पुरं ‘सूर्य ग्राम’निर्मातुं घोषणा, 47,600 कोटिरुप्यकाणां विकास परियोजनानां लोकार्पणं शिलान्यासं च रायरंगपुरम्, 20 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे उक्तवान् यत् कांग्रेसशासनकाले पश्चाद्गामितायाः
राष्ट्रपति द्रौपदी मुर्मु और प्रधानमंत्री नरेन्द्र मोदी शनिवार को मयूरभंज जिले के रायरंगपुर में ओडिशा सरकार के दो वर्ष पूरे होने के उपलक्ष्य में आयोजित समारोह में


- राष्ट्रपतेर्मुर्मोर्ग्रामः पहाड़पुरं ‘सूर्य ग्राम’निर्मातुं घोषणा, 47,600 कोटिरुप्यकाणां विकास परियोजनानां लोकार्पणं शिलान्यासं च

रायरंगपुरम्, 20 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे उक्तवान् यत् कांग्रेसशासनकाले पश्चाद्गामितायाः प्रतीकत्वेन परिगणितः पूर्वभारतप्रदेशः अधुना देशस्य प्रगतेः विकासस्य च प्रवेशद्वारं भवति। तेन उक्तं यत् ओडिशाराज्ये भारतीयजनतापक्षस्य शासनं राज्यस्य संसाधनानि सम्भावनासु परिवर्तयति तथा च उत्कर्ष ओडिशा अभियानेन राज्याय प्रायः २० लक्षकोटिरूप्यकपरिमिताः निवेशप्रस्तावाः प्राप्ताः सन्ति। प्रधानमन्त्री विश्वासं व्यक्तवान् यत् ओडिशाराज्यम् आगामिवर्षेषु देशस्य आर्थिकप्रगतौ विकसितभारतनिर्माणे च अग्रणी भूमिकां निर्वहिष्यति।

राष्ट्रपतिः द्रौपदी मुर्मु तथा प्रधानमन्त्री नरेन्द्र मोदी मयूरभञ्जजनपदस्य रायरंगपुरनगरे ओडिशाशासनस्य द्विवर्षपूर्णतायाः उपलक्ष्ये आयोजिते समारोह उपरि ४७६०० कोटिरूप्यकेभ्यः अधिकव्यययुक्तानां विविधविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवन्तौ। कार्यक्रमे ओडिशाराज्यस्य राज्यपालः हरिबाबू कम्भम्पति, मुख्यमन्त्री मोहन चरण माझी, उपमुख्यमन्त्रिणौ केवी सिंहदेव प्रभाती परिडा च, मन्त्री गणेशराम सिंहखुण्टिया, कृष्णचन्द्र महापात्र, सांसदः नव चरण माझी, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः मनमोहन सामल, सांसदः बैजयन्त पाण्डा इत्यादयः अनेकाः जनप्रतिनिधयः गणमान्यव्यक्तयश्च उपस्थिताः आसन्।

प्रधानमन्त्री स्वीयसम्बोधनस्य आरम्भे राष्ट्रपतिं मुर्मु महोदयीं जन्मदिनस्य शुभकामनाभिः अभिनन्दितवान्। तेन उक्तं यत् मयूरभञ्जस्य दुहिता अधुना देशस्य सर्वोच्चं संवैधानिकपदं विभूषयति, एतत् सम्पूर्णस्य ओडिशाराज्यस्य देशस्य च गौरवविषयः अस्ति।

मोदी महोदयेन उक्तं यत् राष्ट्रपतेः ग्रामं पहाडपुरं गत्वा ताभ्यः जन्मदिनशुभकामनाः प्रदातुं तस्मै अवसरः प्राप्तः। तेन राष्ट्रपत्या स्थापितस्य विद्यालयस्य अपि अवलोकनं कृतम् तथा च विद्यार्थिभिः सह संवादः कृतः। प्रधानमन्त्री उक्तवान् यत् बालकाः राष्ट्रपतिं स्वकीयां मातरं मन्यन्ते, यत् तेषां प्रति जनानां गाढस्नेहस्य आत्मीयतायाश्च प्रतीकम् अस्ति।

प्रधानमन्त्री अस्मिन् अवसरे राष्ट्रपतेः ग्रामं पहाडपुरं सूर्यग्रामरूपेण विकसितुं महत्त्वपूर्णां घोषणां कृतवान्। तेन उक्तं यत् अस्याः परियोजनायाः अन्तर्गतं ग्रामः सौरऊर्जाधारितः आत्मनिर्भरआदर्शग्रामः निर्मास्यते। अनेन स्वच्छऊर्जायाः संवर्धनं भविष्यति, ग्रामवासिभ्यः विविधसुविधाः उपलब्धाः भविष्यन्ति तथा च स्थानीयस्तरे रोजगारस्य उद्यमितायाश्च अवसराः वर्धिष्यन्ते। तेन विश्वासः व्यक्तः यत् आगामिवर्षेषु पहाडपुरं देशस्य कृते सौरऊर्जायाः आदर्शप्रतिमानं भविष्यति।

प्रधानमन्त्री उक्तवान् यत् केन्द्रसर्वकारस्य स्पष्टदृष्टिकोणः अस्ति यत् पूर्वभारतस्य विकासं विना विकसितभारतस्य स्वप्नं साकारं न भवितुमर्हति। एतया चिन्तया सह पूर्वोदयनीतेः आधारेण कार्यं क्रियते।

कांग्रेसशासने यः पूर्वभारतप्रदेशः पश्चाद्गामितायाः पर्यायः कृतः आसीत् सः अधुना विकासस्य निवेशस्य च नूतनं केन्द्रं भवति।

तेन उक्तं यत् २०३६ तमे वर्षे ओडिशाराज्यस्य स्थापनायाः शतवार्षिकी तथा २०४७ तमे वर्षे भारतस्य स्वातन्त्र्यस्य शतवार्षिकी भविष्यति। अतः ओडिशाराज्यस्य भारतस्य च विकासलक्ष्ये परस्परं सम्बद्धे स्तः। यदि ओडिशाराज्यं सबलं भविष्यति तर्हि भारतमपि सबलं भविष्यति।

प्रधानमन्त्री उक्तवान् यत् मुख्यमन्त्रिणः मोहन चरण माझी महोदयस्य नेतृत्वे राज्यं विकासस्य नूतनान् अध्यायान् लिखति। राज्ये निवेशपर्यावरणं श्रेष्ठतरं जातम् अस्ति तथा च विविधक्षेत्रेषु निरन्तरं पूञ्जीनिवेशः आगच्छति। तेन उक्तं यत् उत्कर्ष ओडिशा अभियानेन प्रायः २० लक्षकोटिरूप्यकपरिमिताः निवेशप्रस्तावाः प्राप्ताः सन्ति, ये औद्योगिकविकासाय रोजगारसृजनाय आर्थिकप्रगत्यै च नूतनां दिशं दास्यन्ति।

तेन उक्तं यत् केवलम् ऊर्जाक्षेत्रे एव प्रायः षट्सहस्रकोटिरूप्यकपरिमितः निवेशः प्राप्तः अस्ति, येन राज्यस्य ऊर्जासामर्थ्यं सुदृढं भविष्यति तथा च उद्योगानां विकासः तीव्रगत्या भविष्यति।

प्रधानमन्त्री उक्तवान् यत् तस्य यात्राकाले यासां परियोजनानाम् उद्घाटनं शिलान्यासश्च कृतः तासु प्रायः ४७ सहस्रकोटिरूप्यकाणि व्ययितानि भविष्यन्ति। एताभिः परियोजनाभिः आधारभूतसंरचना सुदृढा भविष्यति, उद्योगानां विस्तारः भविष्यति, ऊर्जोत्पादनक्षमता वर्धिष्यते तथा च युवभ्यःजीविकानां नूतनाः अवसराः सृज्यन्ते। केन्द्रराज्यसर्वकारयोः उत्तमसमन्वयेन विकासयोजनानां लाभः प्रत्यक्षतया जनान् प्राप्नोति तथा च ओडिशाराज्यं देशस्य अतित्वरितगतया प्रगतिं कुर्वत्सु राज्येषु गणितं भवति।

प्रधानमन्त्री उक्तवान् यत् द्वियन्त्रसर्वकारस्य नीतिनां लाभः समाजस्य सर्वेभ्यः वर्गेभ्यः प्राप्यते। महिलासशक्तीकरणाय सुभद्रायोजना तथा स्वास्थ्यसुरक्षायै आयुष्मान भारत योजना इत्येतयोः लाभः अधुना राज्यस्य जनैः प्राप्यते।

तेन स्वच्छभारताभियानस्य अन्तर्गतं ओडिशाराज्यस्य उपलब्धीनां प्रशंसां कृत्वा मुख्यमन्त्रिणं माझिनं तस्य सर्वकारं च अभिनन्दितवान्। सहैव उक्तवान् यत् जनजातीयसमुदायानां समग्रविकासाय केन्द्रसर्वकारः पीएम जनमन योजना इत्यस्य माध्यमेन शिक्षायाः स्वास्थ्यस्य आधारभूतसुविधानां च विस्तारं करोति।

प्रधानमन्त्री सान्तालीभाषासंस्कृत्योः महान् पुरोधाः पण्डित रघुनाथ मुर्मु इत्येतान् श्रद्धापूर्वकं स्मृतवान् तथा च ओल चिकी लिपेः विकासं भारतीयसांस्कृतिकइतिहासस्य महत्त्वपूर्णाम् उपलब्धिं निरूपितवान्।

मोदी महोदयः मयूरभञ्जजनपदस्य कृते अन्यस्य नवोदयविद्यालयस्य स्थापनायै अनुमोदनस्य घोषणाम् अकरोत्। तेन उक्तं यत् अनेन क्षेत्रस्य विद्यार्थिनः गुणवत्तायुक्तशिक्षायाः श्रेष्ठतरान् अवसरान् प्राप्स्यन्ति।

प्रधानमन्त्री स्वीयसम्बोधनस्य अन्ते २१ जून दिवसे आचर्यमाणस्य अन्ता राष्ट्रिययोगदिवसस्य उल्लेखं कृत्वा उक्तवान् यत् योगः ओडिशाराज्यस्य सांस्कृतिकपरम्परायाः अभिन्नः अंशः अस्ति। तेन देशस्य विश्वस्य च जनान् अधिकाधिकसंख्यया योगदिवसकार्यक्रमेषु सहभागितां कर्तुम् आहूतवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani