Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 जूनमासः (हि.स.)।राष्ट्रपतेः द्रौपदीमुर्मोः जन्मदिवसावसरे लोकसभाध्यक्षः ओमबिरला, केन्द्रीयगृहन्त्री अमितशाहः तथा अन्ये शीर्षनेतारः ताभ्यः अभिनन्दनानि शुभकामनाश्च प्रदत्तवन्तः। नेतारः राष्ट्रपतेः संघर्षपूर्णजीवनस्य, सरलतायाः, संवैधानिकमूल्येषु निष्ठायाः तथा राष्ट्रसेवायै समर्पणस्य प्रशंसां कृत्वा तासां उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनाम् अकुर्वन्।
लोकसभाध्यक्षः ओमबिरला राष्ट्रपतेः द्रौपदीमुर्मूयाः जन्मदिवसे शुभकामनाः प्रददन् उक्तवान् यत् साधारणपरिवेशात् राष्ट्रस्य सर्वोच्चसंवैधानिकपदपर्यन्तं तासां प्रेरणादायिनी यात्रा कोटिशः भारतीयानां, विशेषतः महिलानां, युवानां तथा वञ्चितवर्गाणां कृते आशायाः, परिश्रमस्य तथा दृढसङ्कल्पस्य शक्तिशाली सन्देशः अस्ति। तेन राष्ट्रपतेः गरिमामयनेतृत्वं विकसितभारतनिर्माणस्य प्रति तासां प्रतिबद्धतां च प्रेरणास्रोतः इति वर्णितम्।
केन्द्रीयगृहसहकारितामन्त्री अमितशाहः राष्ट्रपतेः कार्यकालं नारीसम्मानस्य, जनकल्याणस्य तथा राष्ट्रसेवायाः क्षेत्रेषु उपलब्धिभिः परिपूर्णम् इति उक्तवान्। तेन उक्तं यत् तासां जीवनं संघर्षस्य, समर्पणस्य तथा राष्ट्रभक्तेः उत्कृष्टम् उदाहरणम् अस्ति।
रक्षामन्त्री राजनाथसिंहः राष्ट्रपतये शुभकामनाः प्रददन् उक्तवान् यत् तया स्वजीवनं समाजसेवायै जनसशक्तीकरणाय च समर्पितम् अस्ति तथा समावेशिविकासस्य सामाजिकन्यायस्य च प्रति तासां प्रतिबद्धता अनुकरणीया अस्ति।
केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः राष्ट्रपतेः यात्रां भारतीयलोकतन्त्रस्य शक्तेः प्रतीकम् इति वर्णितवान्। केन्द्रीयमन्त्री अर्जुनराममेघवालः तथा केन्द्रीयमन्त्री गिरिराजसिंहः अपि ताभ्यां जन्मदिवसस्य शुभकामनाः प्रदत्तवन्तौ तथा राष्ट्रनिर्माणे तासां योगदानस्य प्रशंसाम् अकुरुताम्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः राष्ट्रपतेः सरलजीवनस्य, जनजातीयसमाजस्य उत्थानाय तासां समर्पणस्य तथा संवैधानिकमूल्येषु तासां निष्ठायाः देशवासिनां कृते प्रेरणादायित्वम् उक्तवान्।
दिल्ल्याः मुख्यमन्त्री रेखागुप्ता राष्ट्रपतिं राष्ट्रस्य प्रेरणां सेवाभावस्य प्रतिमूर्तिं च वर्णयन्ती उक्तवती यत् तासां जीवनं संघर्षात् शिखरपर्यन्तम् अनुकरणीया गाथा अस्ति। राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा तदीयं सरलव्यक्तित्वं राष्ट्रसेवायै समर्पणं च प्रेरणास्रोतः इति उक्तवान्।
हरियाणाराज्यस्य मुख्यमन्त्री नयाबसिंहसैनी उक्तवान् यत् राष्ट्रपतिः द्रौपदीमुर्मूः स्वस्य संघर्षेण, सेवया तथा नेतृत्वेन राष्ट्रस्य कोटिशः कन्याभ्यः महिलाभ्यश्च नूतनस्वप्नदर्शनस्य तानि साकारयितुं च विश्वासं प्रदत्तवती।
---------------
Hindusthan Samachar / Dheeraj Maithani