Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 20 जूनमासः (हि.स.)।छत्तीसगढव्यावसायिकपरीक्षामण्डलेन व्यपम इति संस्थया आयोजिता प्राक्कृषिपरीक्षा पीएटी तथा प्राक्पशुचिकित्सापॉलिटेक्निकपरीक्षा पीवीपीटी नाम्नी प्रवेशपरीक्षा रविवासरे अष्टाविंशतितमे जूनमासस्य दिवसे आयोजिता भविष्यति।
एषा परीक्षा प्रातः दशवादनतः अपराह्णे एकवादनपञ्चदशमिनटपर्यन्तं भविष्यति। अस्याः परीक्षायाः सफलशान्तिपूर्णसञ्चालनार्थं समाहर्त्रा आकाशछिकारा महोदयेन प्रदत्तनिर्देशानुसारं जिलाप्रशासनेन सम्यक् सर्वा व्यवस्था कृता अस्ति। अस्याः परीक्षायाः कृते जगदलपुरनगरे चत्वारि परीक्षाकेन्द्राणि निर्धारितानि सन्ति। तानि शासकीयकाकतीयस्नातकोत्तरमहाविद्यालयः धरमपुरा झाडासिरहा, शासकीयअभियान्त्रिकीमहाविद्यालयः धरमपुरा, शासकीयदन्तेश्वरीस्नातकोत्तरमहिलामहाविद्यालयः शान्तिनगर तथा शासकीयमहारानीलक्ष्मीबाइकन्याउच्चमाध्यमिकविद्यालयः इति। एतेषु सर्वेषु केन्द्रेषु कुलतः नवशतत्रयस्त्रिंशदधिकनवशतं अर्थात् ९३३ परीक्षार्थिनः प्रवेशपरीक्षायां सहभागित्वं करिष्यन्ति।
अस्यां परीक्षायां सर्वैः परीक्षार्थिभिः परीक्षायाः आरम्भसमयात् सार्धद्विघण्टापूर्वमेव स्वस्वपरीक्षाकेन्द्रेषु उपस्थितिः अनिवार्या भविष्यति। तत्र मुख्यद्वारे धात्वन्वेषकयन्त्रेण सर्वेषां सघनपरीक्षणं क्रियते। ततः तत्र नियुक्तैः वीक्षकैः परीक्षार्थिनां मूलप्रवेशपत्रस्य तेषां सह आनीतानां वैधपरिचयपत्रेषु कस्यचित् एकस्य च सत्यापनकार्यं क्रियते। नियमानुसारं परीक्षार्थिभिः अन्तर्जालतः निष्कासितं स्वच्छं मूलप्रवेशपत्रम् आनयितव्यम्। यदि कस्यचित् छात्रस्य प्रवेशपत्रे छायाचित्रं स्पष्टं न दृश्यते तर्हि तेन स्वसमीपं वर्तमानकालस्य द्वे वर्णयुक्ते पासपोर्टपरिमाणस्य छायाचित्रे आनयितव्ये इति निर्देशः प्रदत्तः अस्ति।
परीक्षासम्बद्धनिर्देशानुसारं परीक्षाकक्षे अनुशासनरक्षणार्थं विशेषः वेशविन्यासः तथा निषेधाः निर्धारिताः सन्ति। परीक्षार्थिभिः लघुवर्णीयाः अर्धबाहुयुक्ताः टीशर्टवस्त्राणि तथा लघुवस्त्राणि धारयित्वा आगन्तव्यम्। पादयोः केवलं चप्पलधारणस्य अनुमतिः अस्ति, यतः परीक्षाकेन्द्रे जूतमोजधारणं पूर्णतया निषिद्धम् अस्ति। एतदतिरिक्तं कर्णयोः बाली झुमका इत्यादीनि किमपि आभरणं धारयितुं कठोरनिषेधः भविष्यति। परीक्षाकक्षे घटी, धनकोशः, चलदूरवाणी, कटिबन्धः, वैद्युतिकोपकरणानि, सञ्चारसाधनानि, स्कार्फ, टोपी तथा चश्मा इत्यादीनां वस्तूनाम् प्रवेशः अनुमतः नास्ति।
परीक्षायाः सुचारुसञ्चालनार्थं नोडलाधिकारिरूपेण उपसमाहर्ता मनीषकुमारवर्मा नियुक्तः अस्ति। समन्वयकरूपेण डॉ अनिलश्रीवास्तव तथा सहायकसमन्वयकरूपेण डॉ अजयसिंहठाकुरो नियुक्तौ स्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani