प्रधानमंत्री पश्चिमबंग दिवसेऽददाच्छुभकामनाः, डॉ. श्यामा प्रसाद मुखर्जये विहितं नमनम्
नव दिल्ली, 20 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पश्चिमबङ्गदिवसस्य पश्चिमबङ्गस्थापनादिवसस्य च अवसरे राज्यस्य समस्तनागरिकेभ्यः हार्दिकशुभकामनाः प्रदत्तवान्। सहैव भारतीयजनसङ्घस्य संस्थापकं डॉ श्यामाप्रसादमुखर्जीं श्रद्धया नत्वा तस्य
प्रधानमंत्री  नरेन्द्र मोदी


नव दिल्ली, 20 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पश्चिमबङ्गदिवसस्य पश्चिमबङ्गस्थापनादिवसस्य च अवसरे राज्यस्य समस्तनागरिकेभ्यः हार्दिकशुभकामनाः प्रदत्तवान्। सहैव भारतीयजनसङ्घस्य संस्थापकं डॉ श्यामाप्रसादमुखर्जीं श्रद्धया नत्वा तस्य योगदानम् अविस्मरणीयम् इति उक्तवान्।

प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे एक्स इति माध्यमे प्रसारिते स्वसन्देशे उक्तवान् यत् पश्चिमबङ्गराज्येन साहित्ये, सङ्गीते, कलायाम्, अध्यात्मे, विज्ञाने, वाणिज्ये, सामाजिकसुधारेषु च स्वस्य अमूल्ययोगदानेन भारतस्य इतिहासस्य निर्माणे महत्त्वपूर्णा भूमिका निभाविता। तेन उक्तं यत् राज्यस्य समृद्धा सांस्कृतिकपरम्परा, बौद्धिकधारा तथा सामाजिकजागरणस्य प्रवाहः राष्ट्राय नूतनां दिशं प्रदत्तवान्।

प्रधानमन्त्री उक्तवान् यत् पश्चिमबङ्गभूमिः अनेकाः महान् विभूतयः जनयामास, येषां विचाराः कार्याणि च न केवलं राज्यं प्रत्युत सम्पूर्णं राष्ट्रम् अपि प्रेरितवन्ति। बङ्गपुनर्जागरणकालात् आरभ्य स्वतन्त्रतासङ्ग्रामपर्यन्तं आधुनिकभारतनिर्माणपर्यन्तं च पश्चिमबङ्गस्य योगदानं सर्वदा अग्रणी आसीत्। तेन उक्तं यत् राज्यस्य सांस्कृतिकचेतना तथा ज्ञानपरम्परा भारतीयलोकतन्त्रस्य सामाजिकजीवनस्य च अमूल्या धरोहरः अस्ति।

प्रधानमन्त्री उक्तवान् यत् विंशतितमजूनदिनाङ्कः पश्चिमबङ्गस्य इतिहासे महत्त्वपूर्णः दिवसः अस्ति। अस्मिन्नेव दिने कृतैः ऐतिहासिकनिर्णयैः एतत् सुनिश्चितम् अभवत् यत् पश्चिमबङ्गः भारतस्य अभिन्नः भागः भवेत्। तेन उक्तं यत् अयं दिवसः राज्यस्य गौरवशालिनः इतिहासस्य, संघर्षाणां तथा राष्ट्रियैक्यस्य प्रति तस्य अटूटप्रतिबद्धतायाः स्मरणस्य अवसरः अपि अस्ति।

अस्मिन् अवसरे प्रधानमन्त्री डॉ श्यामाप्रसादमुखर्जीं श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् पश्चिमबङ्गस्य भारतेन सह स्थितेः संरक्षणे तथा राष्ट्रियैक्यस्य सुदृढीकरणे तस्य भूमिका अत्यन्तं महत्त्वपूर्णा आसीत्। तेन उक्तं यत् राष्ट्रं अस्मिन् वर्षे डॉ मुखर्जीस्य पञ्चविंशत्यधिकशततमां जयन्तीं आचरति, येन तस्य राष्ट्रवादीविचाराणां, दूरदर्शिनः नेतृत्वस्य तथा राष्ट्रसमर्पणस्य स्मरणस्य अवसरः प्राप्तः अस्ति।

प्रधानमन्त्री उक्तवान् यत् डॉ मुखर्जी राष्ट्रस्य एकता, अखण्डता तथा लोकतान्त्रिकमूल्यानां संरक्षणार्थं उल्लेखनीयानि कार्याणि कृतवान्। तस्य विचाराः आदर्शाश्च अद्यापि देशवासिनः राष्ट्रहितं सर्वोपरि स्थापयित्वा कार्यं कर्तुं प्रेरयन्ति। तेन उक्तं यत् पश्चिमबङ्गस्य राष्ट्रनिर्माणे च तस्य योगदानं सर्वदा सम्मानेन कृतज्ञतया च स्मरिष्यते।

स्वसन्देशे प्रधानमन्त्री विश्वासं व्यक्तवान् यत् केन्द्रसरकारः पश्चिमबङ्गसर्वकारश्च राज्यस्य जनानाम् आकाङ्क्षाः पूरयितुं तथा विकासस्य नूतनपरिमाणान् स्थापयितुं सहकार्यं निरन्तरं करिष्यतः। तेन उक्तं यत् आधारभूतसंरचनायाम्, शिक्षायाम्, स्वास्थ्ये, कृषिक्षेत्रे, उद्योगे तथा रोजगारक्षेत्रे राज्यस्य समग्रविकासाय केन्द्रसरकारः निरन्तरं प्रतिबद्धा अस्ति।

प्रधानमन्त्री पश्चिमबङ्गस्य निरन्तरप्रगतिं, शान्तिं तथा समृद्धिं कामयमानः उक्तवान् यत् राज्यस्य प्रतिभा, सांस्कृतिकसमृद्धिः तथा सृजनात्मकशक्तिः आगामिषु वर्षेषु अपि भारतस्य विकासमार्गाय नूतनां प्रेरणां शक्तिं च प्रदास्यति। तेन राज्यस्य समस्तनागरिकाणां सुखदस्य, सुरक्षितस्य तथा उज्ज्वलभविष्यस्य शुभकामनाः प्रदत्ताः।

----------

Hindusthan Samachar / Dheeraj Maithani