Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 20 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे ओडिशाराज्यस्य मयूरभञ्जजनपदे एकदिवसीयभ्रमणेन आगतः। प्रधानमन्त्री विशेषभारतीयवायुसैन्यहेलिकोप्टरेण मयूरभञ्जस्य पहाडपुरग्रामस्थिते उदग्रविमानस्थानके अवतीर्णः, यत्र राज्यपालः हरि बाबू कंभमपटि, मुख्यमन्त्री मोहन चरण माझी, वरिष्ठमन्त्रिणः प्रशासनिकाधिकारिणश्च तस्य स्वागतं कृतवन्तः। अस्मिन् अवसरे बहुसंख्यकाः स्थानीयजनाः अपि प्रधानमन्त्रीणः एकां झलकां द्रष्टुं समुपस्थिताः आसन्।
हेलिपदात् प्रधानमन्त्री विशेषसुरक्षाव्यवस्थायाः मध्ये विशेषवाहनसमूहसहितः पहाडपुरग्रामं गतवान्। तत्र राष्ट्रपतिः द्रौपदी मुर्मुः पूर्वमेव उपस्थिता आसीत्, या स्वजन्मदिवसस्य अवसरे स्वस्य श्वशुरकुलसम्बद्धग्रामम् आगता आसीत्। ततः परं राष्ट्रपतिः प्रधानमन्त्री च संयुक्तरूपेण अनेककार्यक्रमेषु सहभागित्वं कृतवन्तौ।
उभौ नेतारौ सान्ताली जाहेरा तथा हो जाहेरा इत्यादिषु पवित्रस्थलेषु पूजार्चनां कृतवन्तौ तथा च एकस्य कौशलविकासकेन्द्रस्य पहाडपुर एसएलएस मेमोरियल विद्यालयस्य च भ्रमणं कृतवन्तौ। अस्मिन् अवसरे क्षेत्रे शिक्षायाः, कौशलविकासस्य, सामाजिकार्थिकसशक्तीकरणस्य च संवर्धनाय क्रियमाणेषु प्रयत्नेषु विशेषबलं दत्तम्।
निर्धारितकार्यक्रमानुसारं राष्ट्रपतिः प्रधानमन्त्री च मयूरभञ्जजनपदस्य रायरंगपुरनगरे आयोजिते कार्यक्रमे अपि सहभागित्वं करिष्यतः, यः ओडिशासर्वकारस्य द्विवर्षपूर्णतायाः उपलक्ष्ये आयोजितः अस्ति। अस्य कार्यक्रमस्य विषयः “विकासस्य धारा, समग्रं ओडिशा” इति निर्धारितः अस्ति।
अस्मिन् अवसरे सप्तचत्वारिंशत्सहस्रषट्शतकोटिरूप्यकाधिकमूल्यानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासश्च भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी एतं कार्यक्रमम् अपि सम्बोधयिष्यति।
इदं भ्रमणम्ओडिशाराज्ये विशेषतः जनजातीयग्रामीणक्षेत्रेषु शिक्षायाः, कौशलविकासस्य, आधारभूतसंरचनाविस्तारस्य च गतिवर्धनदिशि एकं महत्त्वपूर्णं पदक्षेपं मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani