प्रधानमंत्री राष्ट्रपति मुर्मवे जन्मदिनस्य अददात् शुभकामनाः
नव दिल्ली, 20 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतये द्रौपदीमुर्मू जन्मदिवसस्य शुभकामनाः प्रदत्तवान्। सः राष्ट्रपतेः साहसं, सरलतां, विनम्रतां तथा लोकसेवायै अटूटसमर्पणं प्रशंसन् उक्तवान् यत् तासां जीवनं देशवासिनां कृते निरन्तरं प्रेर
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


नव दिल्ली, 20 जूनमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतये द्रौपदीमुर्मू जन्मदिवसस्य शुभकामनाः प्रदत्तवान्। सः राष्ट्रपतेः साहसं, सरलतां, विनम्रतां तथा लोकसेवायै अटूटसमर्पणं प्रशंसन् उक्तवान् यत् तासां जीवनं देशवासिनां कृते निरन्तरं प्रेरणास्रोतः अस्ति।

प्रधानमन्त्री शनिवासरे सामाजिकमाध्यममञ्चे एक्स इति माध्यमे प्रसारिते सन्देशे उक्तवान् यत् राष्ट्रपतिः द्रौपदीमुर्मूः स्वस्य दीर्घे सार्वजनिकजीवने राष्ट्रस्य उत्कृष्टां सेवां कृतवती। तया विशेषरूपेण वञ्चितानां, दरिद्राणां तथा समाजस्य अन्त्यभागे निवसतां जनानां कल्याणार्थं निरन्तरं कार्यं कृतम्।

प्रधानमन्त्री उक्तवान् यत् भारतस्य विकासप्रगत्योः प्रति राष्ट्रपतेः अटूटसमर्पणं अत्यन्तं प्रेरणादायकम् अस्ति। सः राष्ट्रपतेः दीर्घायुषः स्वस्थजीवनस्य च कामनां कृत्वा उक्तवान् यत् राष्ट्रसेवायै ताभ्यः ईश्वरात् शक्तिः उत्तमस्वास्थ्यं च प्राप्येत।

---------------

Hindusthan Samachar / Dheeraj Maithani