Enter your Email Address to subscribe to our newsletters

कोलकाता, 20 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबङ्गराज्यस्य हुगलीजिलान्तर्गततारकेश्वरनगरात् प्रधानमन्त्रीकृषकसम्माननिधेः (पीएम किसान) त्रयोविंशतिकिस्तस्य विमोचनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री देशस्य सर्वेभ्यः कोटिशः कृषकेभ्यः आभासीयमाध्यमेन संवादं करिष्यति तथा च तान् सम्बोधयिष्यति।
प्रधानमन्त्रिणा विमोच्यमानायाः एतस्याः किस्तेः अन्तर्गतं देशस्य ९.४४ कोटिभ्यः अधिकानां कृषकपरिवाराणां लेखेषु प्रत्यक्षलाभहस्तान्तरणप्रणाल्या (डीबीटी) माध्यमेन १८,८८० कोटिरूप्यकाधिकधनराशिः हस्तान्तरिता भविष्यति। एषा धनराशिः कृषकाणां बैङ्कलेखेषु प्रत्यक्षतया प्रेषिता भविष्यति।
प्रधानमन्त्रीकृषकसम्माननिधियोजनायाः आरम्भात् अद्यावधि देशव्यापिनः ११ कोटिभ्यः अधिकाः कृषकाः द्वाविंशतिकिस्ताभिः ४.२८ लक्षकोटिरूप्यकाधिकां वित्तीयसहायतां प्राप्तवन्तः।
केन्द्रसर्वकारस्य कथनानुसारं प्रधानमन्त्रीकृषकसम्माननिधियोजना कृषकाणाम् आयवृद्धये कृषिक्षेत्रस्य सुदृढीकरणाय च महत्त्वपूर्णा पहलः अस्ति। अस्याः योजनायाः माध्यमेन पात्रेभ्यः कृषकपरिवारेभ्यः नियमितरूपेण आर्थिकसहायता प्रदीयते।
----------------
Hindusthan Samachar / Dheeraj Maithani