वरिष्ठ शिक्षाविद संजय श्रीवास्तव सर्वपल्ली डॉ.राधाकृष्णन् राष्ट्रियपुरस्कारेण सम्मानितः
प्रयागराजः, 20 जूनमासः (हि.स)। वरिष्ठशिक्षाविद् संजय श्रीवास्तव महोदयः जूनमासस्य १८ तः २० दिनाङ्कपर्यन्तं लखनऊनगरे स्थिते सिटी मोंटेसरी विद्यालये आयोजिते सप्तदशे शिक्षाविदनेतृत्वान्तर्राष्ट्रीयगोलमेजसम्मेलने आमन्त्रितः आसीत्। अस्य मुख्यविषयः कृत्रि
सम्मानित होते संजय श्रीवास्तव


प्रयागराजः, 20 जूनमासः (हि.स)। वरिष्ठशिक्षाविद् संजय श्रीवास्तव महोदयः जूनमासस्य १८ तः २० दिनाङ्कपर्यन्तं लखनऊनगरे स्थिते सिटी मोंटेसरी विद्यालये आयोजिते सप्तदशे शिक्षाविदनेतृत्वान्तर्राष्ट्रीयगोलमेजसम्मेलने आमन्त्रितः आसीत्। अस्य मुख्यविषयः कृत्रिमबुद्धिमत्तायाः युगे आन्तरिकजीवनस्य विकासः इति आसीत्। अन्तर्राष्ट्रीयवैश्विकशिक्षाशिखरसम्मेलनम् २०२६ इत्यस्य अन्तर्गतं शिक्षाक्षेत्रस्य विविधविभागेषु प्रतिष्ठितव्यक्तिभ्यः संस्थाभ्यश्च शिक्षाक्षेत्रे तेषाम् उत्कृष्टयोगदानाय सम्मानः प्रदत्तः।

एतां सूचनां वरिष्ठशिक्षाविद् संजय श्रीवास्तव शनिवासरे प्रदत्तवान्। तेन उक्तं यत् अस्य अन्तर्राष्ट्रीयसम्मेलनस्य आनलाइनमाध्यमेन उद्घाटनं रक्षामन्त्री राजनाथ सिंह महोदयेन स्वीयदृश्यसन्देशेन कृतम्। कार्यक्रमे भारतस्य विविधराज्येभ्यः आगताः प्रतिनिधयः राजनीतिज्ञाः प्रशासकीयाधिकारीणः विशिष्टव्यक्तयः उद्योगपतयश्च उपस्थिताः आसन्। एतेषाम् अतिरिक्तं नेपाल जापान भूटान जर्मनी बाङ्ग्लादेश पाकिस्तान आयरलैण्ड थाइलैण्डादिदेशेभ्यः आगताः शिक्षाविदः तथा देशस्य प्रसिद्धव्यक्तयः अपि उपस्थिताः आसन्।

अस्मिन् अवसरे संजय श्रीवास्तव महोदयाय सर्वपल्ली राधाकृष्णन राष्ट्रीयपुरस्कारः प्रदत्तः। शतचत्वारिंशद्देशानां भ्रमणं कृतवत्या जापानदेशीयया यात्रिकया यासुको हिगाशिजोन महोदया एषः पुरस्कारः वैश्विकशिक्षाप्रशिक्षणसंस्थानस्य अध्यक्षा सुनीता गांधी तथा सिटी मोंटेसरी विद्यालयस्य संस्थापकसदस्या भारती गांधी महोदयोः उपस्थितौ प्रदत्तः।

उल्लेखनीयं यत् संजय श्रीवास्तव महोदयः विगतषड्विंशतिवर्षेभ्यः टैगोर पब्लिक विद्यालये रसायनशास्त्रप्रवक्तृपदे कार्यं कृतवान्। एतदतिरिक्तं सः एम जी एम के पी एस भीटी विद्यालये प्रधानाचार्यपदे अपि कार्यरतः आसीत्। शिक्षाक्षेत्रे तस्य उल्लेखनीययोगदानाय विद्यार्थिषु विज्ञानस्य लोकप्रियीकरणाय च उत्तरप्रदेशसर्वकारस्य विज्ञानप्रौद्योगिकीसञ्चारपरिषदः भारतसर्वकारस्य अधीनस्थायाः राष्ट्रियविज्ञानअकादम्याः तथा विविधसरकारीयगैरसरकारीयसंस्थाभ्यः बहुवारं सम्मानाः पुरस्काराश्च प्रदत्ताः सन्ति।

तेषु एशियाप्रशान्तपुरस्कारः राष्ट्रियअमूल्यनिधिपुरस्कारः राष्ट्रियशिक्षारत्नपुरस्कारः श्रेष्ठविज्ञानशिक्षकपुरस्कारः विज्ञानशिक्षारत्नपुरस्कारः इलाहाबादरत्नसम्मानः उत्कृष्टशिक्षकपुरस्कारः प्रयागगौरवसम्मानश्च प्रमुखाः सन्ति।

संजय श्रीवास्तव महोदयः स्वस्य षड्विंशतिवर्षीयकार्यकाले प्रायः १५०० बालविज्ञानिनः लघुशोधपत्रप्रस्तुत्यर्थं मार्गदर्शनं कृतवान्। तस्य निर्देशनाधीनाः अनेके बालविज्ञानिनः जनपदस्तरे राज्यस्तरे राष्ट्रियस्तरे च स्वशोधपत्राणि प्रस्तुत्य प्रयागराजजनपदस्य नाम गौरवान्वितवन्तः तथा राष्ट्रियस्तरे स्वीयां विशिष्टोपस्थितिं स्थापितवन्तः।

तेन राज्यस्तरीयेषु राष्ट्रियेषु अन्ताराष्ट्रियेषु च विविधसम्मेलनेषु सहभागिता कृता। समाजे विद्यमानानामन्धविश्वासानां निवारणार्थं जलसंरक्षणं मृदासंरक्षणं पर्यावरणसंरक्षणं च विषयीकृत्य अनेकानि शोधपत्राणि प्रस्तुतानि तथा व्याख्यानानि अपि प्रदत्तानि।

संजय श्रीवास्तव महोदयस्य अस्याः उपलब्धेः उपलक्ष्ये राष्ट्रियविज्ञानअकादम्याः पूर्वकार्यकारीसचिवः नीरज कुमार, आर के टण्डन, मोहम्मद मसूद, सन्तोष श्रीवास्तव, आभा त्रिपाठी इत्यादयः तस्मै हार्दिकशुभकामनाः प्रदत्तवन्तः।

Hindusthan Samachar / Dheeraj Maithani