Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, २० जूनमासः (हि.स.)। मुंबई-नगरे पैन-इण्डिया-चलच्चित्रस्य ‘नागाबन्धम्’ इत्यस्य भव्यं पूर्वावलोकनम् प्रकाशितम्। रहस्यमयी-कथा, पौराणिक-तत्त्वानि तथा भव्य-दृश्यवैभवेन समन्वितम् एतत् पूर्वावलोकनं दर्शकाणां कौतूहलम् अत्यधिकं वर्धितवान्।
पूर्वावलोकन-प्रकाशन-कार्यक्रमे चलचित्रस्य कलाकाराः विराट्-कर्णः, नभा-नटेशः, दक्षा-नागरकरः, ऋषभ-साहनी, महेश-माञ्जरेकरः, गणेश-आचार्यः, निर्देशकः अभिषेक-नामा, निर्मातारौ निशिता-नागिरेड्डी तथा किशोर-अन्नापुरेड्डी च उपस्थिताः आसन्। एतत् चलचित्रम् अस्मिन् वर्षे प्रदर्श्यमाणानां प्रमुखानां पौराणिक-क्रिया-साहस-चलच्चित्राणाम् अन्यतमं इति मन्यते।
प्रायः त्रि-निमेष-एकोनविंशतिपला-दीर्घस्य पूर्वावलोकनस्य आरम्भः रहस्यमय-नगरस्य दृश्येन तथा दुर्लभस्य ‘ब्रह्मकमलम्’ इति पवित्र-पुष्पस्य उल्लेखेन भवति। ततः परं रहस्यमयः नागः तस्य पुष्पस्य रक्षणं कुर्वन् दृश्यते, येन कथायां रहस्यस्य रोमाञ्चस्य च तीव्रता वर्धते। पूर्वावलोकने अघोरिणः, सर्पाः, रहस्यमयानि स्वप्नानि, सेना, पुरोहिताः, राजानः तथा गुप्त-निधीनां मनोहराणि दृश्यानि प्रदर्शितानि सन्ति। महेश-माञ्जरेकरस्य पुरोहित-चरित्रम् तथा भगवत: शिवात् प्रेरितानि दिव्य-दृश्यानि पूर्वावलोकनस्य विशिष्टतां वर्धयन्ति।
चलच्चित्रस्य निर्मातारौ अवदताम् यत् ‘नागाबन्धम्’ महता निवेशेन निर्मितम् अस्ति, यस्मिन् पौराणिक-कथानां, रहस्यस्य तथा भावनानां अद्वितीयः समन्वयः द्रष्टुं लभ्यते। निर्देशकः अभिषेक-नामा अपि उक्तवान् यत् एतत् चलचित्रं दर्शकान् तादृशं काल्पनिकं विश्वम् आनयिष्यति, यत्र साहसम्, कल्पनारमणीयता तथा रोमाञ्चः प्रत्येकस्मिन् चरणे अनुभूयते। सामाजिक-माध्यमेष्वपि अस्य पूर्वावलोकनस्य सकारात्मकः प्रतिसादः प्राप्यते तथा चलचित्रस्य विषये दर्शकाणाम् उत्साहः निरन्तरं वर्धते।
Hindusthan Samachar / Divya Ranjan